________________
अथ तृतीयं प्रयाणकम् । अन्यदाऽभ्यागते ग्रीष्मे समं समरकेतुना । मत्तकोकिलमुद्यानं कुमारः क्रीडितुं ययौ ॥१॥ तन्मध्यगतमध्यास्त रचितं सरयूतटे । उद्दण्डमण्डलाकारकदलीखण्डमण्डितम् ॥२॥ नालनिर्यत्पयोयन्त्रपुत्रिकाराजिराजितम् । अकालजलदारम्भमञ्जुलं जलमण्डपम् ॥३॥ युग्मम् । राजपुत्रैः समं तत्र काव्यगोष्ठीमधिष्ठिते । कुमारे व्याजहारेदं बन्दी मञ्जीरका भिधः ॥४॥ कुमार ! कामचैत्येऽस्य चूतस्याधो मधूत्सवे । अतीतायां त्रयोदश्यामपश्यं पत्रखण्डकम् ॥५॥ ततस्तमहमुन्मुद्रय मुद्रितं कुचमुद्रया । आर्यामवाच[स्तत्र कस्तूरीलिखिताक्षराम् ॥६॥ न मया स्वधियाऽबोधि चिरं चिन्तयताऽपि सा । तदेतस्या रहस्यं मे कथ्यतामिति सोऽपठत् ॥७॥ "गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमचिरेण । स्थाताऽसि पत्रपादपगहने तत्रान्तिकस्थाग्निः ॥८॥" निशम्य चैतामन्येषु प्राज्ञमन्येषु मूकताम् । गतेषु स तदैवाह मेघवाहननन्दनः ॥९॥ सखे ! पञ्चेषुलेखोऽयं कयाऽपीश्वरकन्यया । गाढानुरागया पूर्व जातालापस्य कस्यचित् ॥१०॥ तत् वित्थ तव गुरुभिर्न दत्ता याचिताऽपि मे । तत् त्वां प्राणेश्वरी कतु बलादिच्छति मे मनः ॥११॥ इति लेखादिना स्वाभिप्रायस्य (प्रिय]मानिनः । यूनः सम्प्रेषितं कार्यमेतदत्र विवक्षितम् ॥१२॥ त्वं मामकारणाद् द्विष्टैरदत्तां पितृभिः पथा । अरूढेण समुद्वोदुमिच्छन् न्यायी तदस्तु मा ॥१३॥ यतः कतिपयैरेव दिनैः स्थाताऽसि यत्र नौ ।
दर्शनं प्रागभूत् तत्र पत्रप्रायद्रुकानने ॥१४॥ १ टी । २ ष्टि । ३ खा । १ वि । ५ त्वं । ६ स्थ । ७ स्व ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org