SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ २ ] तिलकमञ्जरीसारः । साहसेनाधिकं तुष्टा त्वां मे लक्ष्मीरलक्षितम् । दिव्याङ्गुलीयकव्याजाद् द्वितीयं तनयं ददौ ॥११२॥ राज्यं समानमेतत् ते कुमारेणामुना समम् । तदाssस्व विश्वमप्यत्र कामितं तव सेत्स्यति ॥ ११३ ॥ अथ न्यस्तदृशं तस्मिन्नुवाच हरिवाहनम् । असौ समरकेतुस्ते सहायः परिकल्पितः ॥ ११४॥ अयं भ्राता च भृत्यश्च सर्वस्वं च सखा च ते । आत्मनीव त्वयाऽमुष्मिन् भवितव्यं हितैषिणा ॥ ११५ ॥ इत्यादिश्योत्थिते राज्ञि तदाज्ञां मूर्ध्नि धारयन् । कुमारस्तं करे धृत्वा सौधादन्तःपुरं ययौ ॥ ११६॥ प्रणामानन्तरं देव्यास्तद्वृतान्तं निवेद्य सः । तेनाऽथ लब्धवस्त्रेण सार्द्धं स्वावासमासदत् ॥ ११७॥ तत्र स्नानाशनक्षौमभूषणैस्तं नृपाङ्गभूः । उपाचरत् तथा नायं यथा स्वं स्थानमस्मरत् ॥ ११८ ॥ सोऽपि पल्लवितप्रीतिस्तं समाराधयत् तथा । तं यथाऽमन्यताऽभिन्नमात्मनो हरिवाहनः ॥ ११९॥ पवित्रेऽथ दिने पुत्रं जगन्नेत्ररसायनम् । व्यधाद् विश्वकलाभाजं युवराजं घराधिपः ॥१२०॥ तस्मै कश्मीरदेशाद्यं प्रसादेनोत्तरापथम् । अदादङ्गादिदेशांश्च वृत्तौ समरकेतवे ॥१२१॥ दुःसाधैरसिधेनुधन्वखुरली खेलायितैर्जातुचिद् जातु प्राक्तन [नव्य]काव्यनयविग्रन्थार्थविस्तारणैः । वीणावेणुमृदङ्गभङ्गिसुभगैगतैः कदाचित् तयो श्चित्तागन्तुककामितं कलयतोः कालः क्रियानप्यगात् ॥ १२२॥ इति [श्रीतिलकमञ्जरीसारे] मित्रसमागमो नाम द्वितीय विश्रामः । ( इति द्वितीयं प्रयाणकम् ) १ श्व । २ स्मी । ति. म. ३ Jain Education International 2010_05 For Private & Personal Use Only १७ www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy