Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीपल्लीपालवंशीयधनपालविरचितः पुनः श्रीः स्माह मत्पार्श्व सौम्य! एव निषेवते । नासौ निशाचरः किन्तु द्वाःस्थो ममें महोदरः ॥९५॥ एषा विभीषिकाऽनेन कृता सत्त्वं तवेक्षितुम् । मुक्त्वा कदाग्रहं तेन प्रार्थय स्वार्थमीप्सितम् ॥१६॥ सोऽपि नत्वाऽवदद् देवि! वंश्यानां मामपश्चिमम् । कुरु वीरप्रसूनां च प्रथमां मदिरावतीम् ॥९७॥ सप्रसादाऽवदत् पद्मा नचिरात् ते भविष्यति । आर्त्तत्राणपरः कीर्तिपवित्रितजगत्त्रयः ॥९८॥ भूपालमौलिमाणिक्यशोणितांहिनखावलिः । निखातविजयस्तम्भश्चतुरम्भोधिसीमनि ॥९९।। विजितारिवधूधौतशुद्धान्तस्त्रीपदाम्बुजः । भोक्ता निखिलभूपाल-खेचराधिपराज्ययोः ॥१०॥ उद्भूतचामरः 'क्लप्तदेह द्वितयया मया । कलाकलापनिष्णातः प्रतापवसतिः सुतः ॥१०१॥ कलापकम् । चन्द्रातपोऽयं हारश्च सर्वविघ्नापहारकः । मया दत्तस्तवाऽर्थोऽसौ स्वागजस्यैव यौवने ॥१०२॥ विधेयः सविधे चास्य दुर्गारण्यरणादिषु । अनुजानीहि गन्ताऽस्मि स्वपमहदसमनि ॥१०३॥ इत्युक्त्वा ख्यातमाहात्म्यं निजं बालारुणाभिधम् । रत्नाङ्गुलीयकं चास्मै दत्त्वा देवी तिरोदधे ॥१०४॥ . कोणैकदेशेऽनुचरैः पूर्वमेव प्रकल्पितम् । सविस्मयः क्षण स्थित्वा कुशतल्पमगान्नृपः ॥१०५॥ तत्रात्मानं करगतजगद्वैभवं मन्यमानो
हारन्यासे त्रिदशगदितान्यूहमानो मृदूनि । तोषालापान्मुदितकमलान् कोमलान् गाहमानः
सानन्दस्तां रजनिमनयत् कोशलक्षोणिपालः ॥१०६॥ इति [श्रीतिलकमञ्जरीसारे ] लक्ष्मीप्रसादनो नाम प्रथमो विश्रामः
___ (इति प्रथमं प्रयाणकम् )। १म-। २ माएण । ३ चूं। १ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146