Book Title: Tilakmanjari Katha Saransh
Author(s): Ravikantvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 6
________________ ॥ सूरिप्रेमाष्टकम् ॥ रचयिता -प. पू. पंन्यासः श्रीकल्याणबोधिविजयो गणिः ___ (वसन्ततिलका) श्रीदानसूरिवरशिष्यमतल्लिकाऽसौं, जैनेन्द्रशासनमहाकुशलौघकल्पः। सिद्धान्तवारिवरवारिनिधिर्महर्षिः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ कर्माख्यशास्त्रनिपुणो ह्यनुहीरसूरि-विश्वाद्भुतप्रवरसंयतगच्छकर्ता । मौनप्रकर्षपरिदिष्ट महाविदेहः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ चारित्रचन्दनसुगन्धिशरीरशाली, स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः। मन्ये करालकलिकालजवीतरागः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ अत्यन्तनि:स्पृहमनःकृतदभ्ररागः, सन्तोषकेसरिविदीर्णविलोभनागः। कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद्भवरागनागात्॥ वैराग्यनीरजलधे ! निकटस्थसिद्धे !, संसारतारणतरी शमसौख्यशाली। लोकोत्तरास्वनितदर्शितसार्वकक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ ऐदंयुगीनसमयेऽपि महाचरित्रः, कन्दर्पदर्पहरणः परिपूर्णशीलः । पापारपङ्कजलजं जलजं यथाऽहो !, श्रीप्रेमसूरिरवताद्भवरागनागात्॥ भक्तेषु रञ्जितमना न बभूव सूरि-भक्तां तु नैव कृतवान् वनितैकभीरुः। शिष्याः कृता न च निजा विगतस्पृहेण, श्रीप्रेमसूरिरवताद्भवरागनागात्॥ मुग्धोऽस्मि ते गुणसमुद्रतलं यियासु-र्नाहं तव स्तुतिकृतेऽस्मि पटुप्रतिभः। नाऽहं भवत्पुनितपादरजोऽप्यरेऽस्मि, कल्याणबोधिफलदातृतरो ! नतोऽस्मि॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 402