Book Title: Tattvarthadhigamsutra tatha Tena Uper Rachayel Sahityani Suchi
Author(s): Jitendra B Shah
Publisher: Shrutratnakar
View full book text
________________
૧૦
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર
ऋजुविपुलमती मनः पर्यायः ॥ २४ ॥ विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनः पर्याययोः ॥ २६ ॥ मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥२७॥
रूपिष्ववधेः ॥२८॥
तदनन्तभागे मनःपर्यायस्य ॥ २९ ॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥३०॥
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥३१॥ मतिश्रुताऽवधयो विपर्ययश्च ॥ ३२ ॥ सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवत् ॥३३॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दा नयाः ||३४||
आद्यशब्दौ द्वित्रिभेदौ ॥ ३५ ॥
द्वितीयोऽध्यायः
औपशमिक क्षायिक भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ सम्यक्त्वचारित्रे ॥३॥
ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः यथाक्रमं सम्यक्त्वचारित्रसंयमासंयमाश्च ॥५॥ गतिकषायलिङ्गमिथ्यादर्शनाऽज्ञानाऽसंयताऽसिद्धत्वलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ॥६॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58