Book Title: Tattvarthadhigamsutra tatha Tena Uper Rachayel Sahityani Suchi
Author(s): Jitendra B Shah
Publisher: Shrutratnakar
View full book text
________________
૧૮
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર
गुणसाम्ये सदृशानाम् ॥३४॥ द्वयधिकादिगुणानां तु ॥३५॥ बन्धे समाधिको पारिणामिकौ ॥३६॥ गुणपर्यायवद् द्रव्यम् ॥३७॥ कालश्चेत्येके ॥३८॥ सोऽनन्तसमयः ॥३९॥ द्रव्याश्रया निर्गुणा गुणाः ॥४०॥ तद्भावः परिणामः ॥४१॥ अनादिरादिमांश्च ॥४२॥ रूपिष्वादिमान् ॥४३॥ योगोपयोगी जीवेषु ॥४४॥
षष्ठोऽध्यायः
कायवाड्मनःकर्म योगः ॥१॥ स आस्त्रवः ॥२॥ शुभः पुण्यस्य ॥३॥ अशुभः पापस्य ॥४॥ सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥५॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः ॥६॥ तीव्रमन्दज्ञाताज्ञातभाववीर्याऽधिकरणविशेषेभ्यस्तद्विशेषः ॥७॥ अधिकरणं जीवाजीवाः ॥८॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥९॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58