Book Title: Tattvarthadhigamsutra tatha Tena Uper Rachayel Sahityani Suchi
Author(s): Jitendra B Shah
Publisher: Shrutratnakar
View full book text
________________
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર
तृतीयोऽध्यायः
रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभा भूमयो - वाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः ॥ १॥
घनाम्बु
तासु नरकाः ॥२॥
नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥
परस्परोदीरितदुःखाः ॥४॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमाः
सत्त्वानां परा स्थितिः ॥६॥
जम्बूद्वीपलवणादय: शुभनामानो दीपसमुद्राः ॥७॥ द्विद्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८ ॥ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्त्रविष्कम्भो जम्बूद्वीपः ॥ ९ ॥ तत्र भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥११॥
द्विर्धातकीखण्डे ॥१२॥
पुष्करार्धे च ॥१३॥ प्राङ्मानुषोत्तरान् मनुष्याः ॥१४॥
आर्या म्लेच्छाश्च ॥१५॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र
૧૩
देवकुरूत्तरकुरुभ्यः ॥१६॥ नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥१७॥ तिर्यग्योनीनां च ॥१८॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58