Book Title: Tattvarthadhigamsutra tatha Tena Uper Rachayel Sahityani Suchi
Author(s): Jitendra B Shah
Publisher: Shrutratnakar
View full book text
________________
૧૫
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર
नतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्ताऽपराजितेषु सर्वार्थसिद्धे च ॥२०॥ स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२१॥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२२॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२३॥ प्राग् ग्रैवेयकेभ्यः कल्पाः ॥२४॥ ब्रह्मलोकालया लोकान्तिकाः ॥२५॥ सारस्वतादित्यवढ्यरुणगर्दतोयतुषिताव्याबाधमरुतोऽरिष्टाश्च ॥२६॥ विजयादिषु द्विचरमाः ॥२७॥
औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२८॥ स्थितिः ॥२९॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥३०॥ शेषाणां पादोने ॥३१॥ असुरेन्द्रयोः सागरोपममधिकं च ॥३२॥ सौधर्मादिषु यथाक्रमम् ॥३३॥ सागरोपमे ॥३४॥ अधिके च ॥३५॥ सप्त सानत्कुमारे ॥३६॥ विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च ॥३७॥
आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ॥३८॥ अपरा पल्योपममधिकं च ॥३९॥ सागरोपमे ॥४०॥ अधिके च ॥४१॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58