Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ शुभवि. कृ. ॥ २ ॥ Jain Education In रूपावस्थभ्य एव कारणेभ्यो जायमानं प्रामाण्यं कथमुत्पत्तौ परतः स्यादिति । १ । निश्चयस्तु तस्य परतः कारणगुणज्ञानाद् | बाधकाभावज्ञानात्संवादिज्ञानाद्वा स्यात्तत्र प्राच्यं प्रकारं प्रागेव प्रक्षिप्तवन्तो गुणग्रहणसमर्थप्रमाणपराकरणाद् । द्वितीये तु तात्कालिकस्य | कालान्तरभाविनो वा बाधकस्याभावज्ञानं प्रामाण्यनिश्चायकं स्यात्, पौरस्त्यं तावत् कूटहाटकनिष्टंकने स्पष्टमस्त्येव, द्वितीयं तु न चर्मचक्षुषां सम्भवति । २ ।। संवादिज्ञानं तु सहकारिरूपं सत्तन्निश्चयं विरचयेद्, ग्राहकं वा भवेन्नाद्यभेदो भिन्नकालत्वेन तस्य सहकारित्वासंभवाद्, द्वितीयपक्षे तु तस्यैव ग्राहकं सत्तद्विषयस्य विषयान्तरस्य वा ? नाद्यः प्रवर्त्तकज्ञानस्य दूरनष्टत्वेन ग्राह्यत्वायोगाद्, द्वितीये त्वेकसन्तानं भिन्नसन्तानं वा प्रामाण्यं स्यात्पक्षद्वयेऽपि तैमिरिकावलोक्यमानचन्द्रमण्डलद्वयदर्शिदर्शनेन व्यभिचारस्तद्धि चैत्रस्य पुनः पुनर्मिंत्रस्य चोत्पद्यत एव || ३ || तृतीये पुनरर्थक्रियाज्ञानमन्यद्वा तद्वा ( द्) भवेन्नाग्रिमं प्रवर्त्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाभावादन्यदपि विज्ञानमेकसन्तानं भिन्नसन्तानं वा द्वयमपि चैतदेकजातीयं भिन्नजातीयं वा चतुष्टयमपि चैतद् व्यभिचारदुःसञ्चरं तथाहि एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरङ्गिणीतोयज्ञानं भिन्नजातीयं च स्तंभकुंभादिज्ञानं कूपपानीयज्ञानस्य न संवादकमिति न इप्तावपि प्रामाण्यं परतः । ३ । प्रामाण्यं तूत्पत्तौ दोषापेक्षत्वाद् ज्ञप्तौ तु बाघकापेक्षत्वात्परत एवेति । अत्र ब्रूमः ॥ यत्तावद्गुणः प्रत्यक्षेणानुमानेन वा मीयेरन्नित्या - शुक्तं तदखिलं दोषेष्वपि वक्तुं पार्यते । अथ प्रत्यक्षेणैव चक्षुरादिस्थान् दोषान् निश्चिक्यिरे लोकाः किं नैर्मल्यादीन् गुणानपि न । अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि नतु गुणरूपमिति कथं प्रत्यक्षेण गुणनिश्चयः स्यादेवं तर्हि नैर्मल्यादिगुणाभावमात्रमेव तिमि - रादि नतु दोषरूपमिति विपर्ययकल्पना किं न स्यादिति ।। १ । यच्चावाचि निश्चयस्तु तस्य परत इत्यादि । तत्र संवादिज्ञानादिति ब्रूमः । कारणगुणज्ञानबाधकाभावज्ञानयोरपि च संवादज्ञानरूपत्वं प्रतिपद्यामहे । अथ बाधकादेवाप्रामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकादेवं तर्हि संवा 11611 For Private & Personal Use Only स्याद्वादभा ॥२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40