Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ Jain Education in विपरीतैककोटिनिष्टंकनं विपर्ययः, यथा शुक्तिकायामिदं रजतमिति । किमित्यालोचनमात्रमन्ध्यवसायो, यथा गच्छत्तृणस्पर्शज्ञानमिति । स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायोऽर्थस्येव तदुन्मुखतया घटमहमात्मना जानामीति कर्मवत् कर्तृकरणक्रियाप्रतीतेः । यथार्थाभिमुख्येन प्रकाशनमर्थव्यवसायो ज्ञानस्य । तथा स्वाभिमुख्येन प्रकाशनं स्वव्यवसायोऽपि तस्येति । को वा तत्प्रतिभासितमर्थमध्यक्षामिच्छन् तदेव तथा नेच्छेत्प्रदीपवत् । यत्तु योगैरुक्तं । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तर समयसमुत्पदिष्णुमानसप्रत्यक्षेणैव लक्ष्यते न पुनः स्वेनेति । तदसत् । परापरज्ञानोत्पादपरंपरायामेवात्मनो व्यापारादविषयान्तरसञ्चारादिति । तत्प्रामाण्यं स्वतः परतश्च । ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यं । तदितरत्त्वऽप्रामाण्यमिति । तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासदृशायां तु परत इति । तत्र ज्ञानस्याभ्यासदशायां प्रमेयाऽव्यभिचारि तदितरच्चास्तीतिप्रामाण्याप्रामाण्यनिश्चयः संवादकवाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते । अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽसौ परत इति वस्तुगतिः । मीमांसा वदन्ति । स्वत एव सर्वथा प्रमाणानां प्रामाण्यं । तथाहि । प्रामाण्योत्पत्तौ प्रगुणा गुणाः प्रत्यक्षेणानुमानेन वा मयेरन् । यदि प्रत्यक्षेण तत्किमिन्द्रियेण वाडतीन्द्रियेण वा, नेन्द्रियेणाऽतीन्द्रियाधिकरणत्वेन तेषां तद्धर (ग्रह) णा योग्यत्वान्नाप्यतीं द्रियेण तस्य चारुविचाराभावाद । अनुमानेन ते निर्णीयन्ते इति चेत्कुतस्तत्र नियमनिर्णयः स्यान्न प्रत्यक्षाद् गुणेषु तत्प्रवृत्ते | परास्तत्वान्नाप्यनुमानात्तत एव निश्चितावितरेतराश्रयस्य तदन्तरात्पुनरनवस्थायाः प्रसक्तेः ततो न गुणास्सन्ति केचिदितिस्व For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40