Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अनुपलब्धेरपि द्वैरुप्यमविरुद्धानुपलब्धिर्विरुद्धानुपलब्धिश्च । तत्राविरुद्धानुपलब्धिः प्रतिषेधसिद्धौ सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलब्धिभेदात् ॥ ततः स्वभावानुपलब्धिः। १ । व्यापकानुपलब्धिः । २ । कार्यानुपलब्धिः। ३ । कारणानुपलब्धिः । ४ । पूर्वचरानुपलब्धि । ५ । रुत्तरचरानुपलब्धिः । ६। सहचरानुपलब्धिश्चेति
७। उदाहृतिर्यथा नास्त्यत्र भूतले घट उपलब्धिलक्षणप्राप्तत्वे सति अनुपलब्धः १ । नास्त्यत्र शिंशपा वृक्षानुपलब्धेः २। नास्त्यत्राप्र-8 तिबद्धसामर्थ्याग्निधूमानुपलब्धः३। नास्त्यत्र धूमोऽनग्नेः ४ । नोदेष्यति मुहर्त्तान्ते शकटं कृत्तिकोदयानुपलब्धेः ५ । नोदगाद्भरणिH-18 हर्त्तात्माक् कृत्तिकोदयानुपलब्धेः ६ । नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेः ७ । इति ॥ विरुद्धानुपलब्धिर्विधौ पञ्चधा । विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलंभभेदात् ॥ विरुद्धकार्यानुपलब्धिः । १ । विरुद्धकारणानुपलब्धिः ॥२विरुद्धस्वभावानुपलब्धिः । ३ । विरुद्धव्यापकानुपलब्धिः । ४ । विरुद्धसहचरानुपलब्धिश्चेति । ५। उदाहृतिर्यथाऽस्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः १ । अस्त्यत्र शरीरिणि दुःखमिष्टसंयोगाभावात् २ । अनेकान्तात्मकं वस्तु एकान्तस्वरूपानु
पलब्धः ३ । अस्त्यत्र छाया औष्ण्यानुपलब्धेः ४ । अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेः ५ इति । परंपरया संभवत्साधनमत्रैवा-11 अन्तर्भावनीयं । अभूदत्र चक्रे शिवकः स्थासात कार्यकार्यमविरुद्धकार्योपलब्धौ यथा । नास्त्यत्र मृगक्रीडनं मृगारिशब्दात् कारणविरुद्धका-18
योपलब्धौ यथा २ । इति । आप्तवचनाजातमर्थज्ञानमागमः। उपचारादाप्तवचनं च। यथा अस्त्यत्र निधिः । सन्ति मेर्वादयः। २ ।अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः। स च द्वेधा लौकिको लोकोत्त
Jain Education Inter
For Privale & Personal use only
X
w
.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40