Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 33
________________ Jain Educatio विशिष्टानेकक्रिया ३ छिन्नावयवम्लानि ४ प्रतिनियतप्रदेशाहारग्रहण ५ वृक्षायुरभिहितायुष्के ६ ष्टानिष्टाहारादिनिमित्तकवृद्धिहानि ७ आयुर्वेदोदिततनूरोग ८ विशिष्टौषधप्रयोगसंपादितवृद्धिहानिक्षतभुग्नसंरोहण ९ प्रतिनियतविशिष्टशरीररसवीर्यस्निग्धत्वरूक्षत्व १० विशिष्टदोहदा ११ दिमत्त्वान्यथानुपपत्तेर्विशिष्टस्त्रीशरीरवत् । अथवैते हेतवः प्रत्येकं पक्षेण संह प्रयोक्तव्याः । अयं वा संगृहीतोतार्थ - प्रयोगः सचेतना वनस्पतयो जन्मजरामरणरोगादीनां समुदितानां सद्भावात् । अत्र समुदितानां जन्मादीनां ग्रहणात् जातं तद्दधीत्या| दिव्यपदेशदर्शनाद् दध्यादिभिरचेतनैर्न व्यभिचारः शङ्कन्यस्तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् । आप्तवचनात्सर्वेषां सात्मकत्वसिद्धि|| रिति । द्वीन्द्रियाः शङ्खशुक्तिकादयः । त्रीन्द्रियाः पिपीलिकादयः। चतुरिन्द्रिया मक्षिकाभ्रमरपतङ्गादयः । पञ्चेन्द्रिया गोमहिष्यादयो गर्भव्युत्क्रान्ताः संमूर्च्छजाश्चेति ॥१॥ एतद्विपरीतोऽजीवः स च धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः। तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायो ऽसङ्ख्यपदेशो गत्युपग्रहकारी च । १ । अधर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्न्यप्रदेशः स्थित्युपग्रहकारी च । २ । आकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमवस्थितमरूपिद्रव्यमस्तिकायो ऽवगाहोपकारकं वक्तव्यम् । ३ । कालोऽर्द्धतृतीयद्वीपान्तर्वर्त्ती परमसूक्ष्मो निर्विभागः एकः समयः । स चास्तिकायो न भण्यते एकसमयरूपस्य तस्य निष्प्रदेशत्वात् । आहच "तस्मान्मानुषलोकव्यापी कालोऽस्ति समय एक इह । एकत्वाच्च स कायो न भवति कायो हि समुदायः। १ ।” स च सूर्यादिग्रहनक्षत्रोदया - |स्तादिक्रियाभिव्यङ्गन्यः एकीयमतेन द्रव्यमभिधीयते स चैकः समयो द्रव्यपर्यायो भयात्मैव द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्यभूतक्रमभाव्यनाद्यपर्यवसाना (न)न्तसङ्ख्यपरिणामो (माणोऽतएव च स स्वपर्यायप्रवाहव्यापी द्रव्यात्मना नित्योऽभिधीयते अतीतानागतवर्त्तमा ational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40