Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 31
________________ शरीररूपानेमन्दीभवनात् जलादिषु यः शीतलस्पर्शः सोऽपि मानुषशरीरशीतलस्पर्शवज्जीवहेतुकोऽभ्युपगमनीयः । तत एवंविधलक्षणभाक्त्वाजीवा भवन्त्यप्कायाः २ । यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोगनिर्वृत्तशक्तिराविश्वकास्ति, एवमङ्गारादीनामपि प्रतिविशिष्टप्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा ज्वरोष्मा जीवप्रयोगं नातिवर्तते, एवोपमाग्नेयजन्तूनां, न च मृता ज्वरिणः कचिदुपलभ्यन्ते । एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता ज्ञेया । प्रयोगश्चात्र । आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः शरीरस्थत्वात् खद्योतदेहपरिणामवत् १ । तथा आत्मसंयोगपूर्वकोऽङ्गारादीनामूष्मा शरीरस्थत्वात, ज्वरोष्मवत् । नचादित्यादिभिरनेकान्तः सर्वेषामुष्णस्पर्शस्यात्मसंयोगपूर्वकत्वात् २ । तथा सचेतनं तेजो यथायोग्याहारोपादानेन वृद्धयादिविकारोपलम्भात् पुरुषवपुर्वत् ३ । एवमादिलक्षणैराग्नेयजन्तवोऽवसेयाः। ३ । यथा देवस्य स्वशक्तिमभावान्मनुष्याणां वाञ्जनविद्यामन्त्रैरन्तर्धाने शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यमान चेतनावच्चाध्यवसीयते । एवं वायावपि चक्षुह्यं रूपं न भवति सूक्ष्मपरिणामात् परमाणोरिव वविदग्धपाषाणखण्डिकागताऽचित्ताग्नेरिव वा । प्रयोगश्चायं । चेतनावान् वायुरपरप्रेरिततिर्यगनियमितदिग्गतिमत्त्वात् गवाश्वादिवत् १ । तिर्यगेव गमननियमात् अनियमितविशेषणोपादानाच परमाणुना न व्यभिचारस्तस्य नियमितगतिमत्त्वात् जीवपुद्गलयोरनुश्रेणि गतिरिति वचनात्' । एवं वायुरशस्त्रोपहतश्चेतनावानवगन्तव्यः ४ ॥ बकुलाशोकचम्पकाधनेकविधवनस्पतीनामेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभाञ्जि भवन्ति । तथाहि-यथा पुरुपशरीरं बालकुमारयुववृद्धतापरिणामविशेषत्वात् चेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते तथेदं वनस्पतिशरीरमनवरतं बालकुमारयुवावस्थाविशेषैः प्रतिनियतं वद्धते तथेदमपि वनस्पतिशरीरमङ्करकिशलयशाखापशाखादिविशेषैः प्रतिनियतं वर्द्धत इति । तथा यथा मनुष्यशरीरं ज्ञानेनानुगतं एवं वनस्पतिशरीरमपि यतःशमीप्रपुन्नाटसिद्धरसकासुन्दकवच्छूलागस्त्यामलकाकडिप्रभृतीनां स्वापविबोधतस्तद्भावः। तथाऽ Jan Education intem For Private & Personal Use Only Allainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40