Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 30
________________ शुभवि. कृ. ॥ १० ॥ Jain Education Inter भागं चेतनावद् दृष्टं, एषैवोपमाब्जी वानामपि । प्रयोगश्चायं । सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात् हस्तिशरीरोपादानभूतकललवत् । हेतोर्विशेषणोपादानात्प्रश्रवणादिव्युदासः १ । तथा सात्मकं तोयमनुपहतद्रवत्वात् अण्डकमध्यस्थितकललवादिति २ । इदं वा प्राग्वज्जीवच्छरीरत्वे सिद्धे सति प्रमाणं । सचेतना हिमादयः कचिदपूकायत्वादितरोदकवदिति ३ । तथा वचन चेतनावन्त्यापः खातभूमिस्वाभाविकसम्भवात् दर्दुरवत् ४ । अथवा सचेतना अन्तरिक्षाद्भवा आपोऽभ्रादिविकारे स्वत एव सम्भूयपातात् मत्स्यवदिति । तथा शीतकाले | भृशं शीते पतति नद्यादिष्वल्पेऽल्पो बहौ बहुर्वहुतरेच बहुतरो य ऊष्मा संवेद्यते स जीवहेतुक एवाऽल्पबहुबहुतरामिलितमनुष्यशरीरेष्वल्पबहुबहुतरोष्मवत् । शीतकाले जलेषूष्णस्पर्श उष्णस्पर्शवस्तुप्रभव उष्णस्पर्शत्वात, मनुष्यशरीरोष्णस्पर्शवत् । नच जलेष्वयमुष्णः स्पर्शः सहजः अप्सु स्पर्शः शीत एवेति वैशेषिकादिवचनात् । तथा शीतकाले शीते स्फीते निपतति प्रातस्तटाकादेः पश्चिमस्यां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते तदा तज्जलान्निर्गतो वाष्पसंभारो दृश्यते सोऽपि जीवहेतुक एव । प्रयोगस्त्वित्थं- शीतकाले जलेषु वाष्प उष्णस्पर्शवस्तुप्रभवो वाप्पत्वात्। शीतकाले शीतलजलसिक्तमनुष्यशारीरवाष्पवत् । प्रयोगद्वयेऽपि यदेवोष्णस्पर्शस्य वाष्पस्य च निमित्तमुष्णस्पर्श वस्तु तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यम् । जलेष्वऽन्यस्योष्णस्पर्शवाष्पयोर्निमित्तस्य वस्तुनोऽभावात् । नच शीतकाले उत्कुरुडिकाऽवकरतलगतोष्णस्पर्शेन तन्मध्यनिर्गतवाष्पेन च प्रकृतहेतोर्व्यभिचारः शङ्कयः ! तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमित्तत्त्वाभ्युपगमात् । ननु मृतजीवानां शरीराणि कथमुष्णस्पर्शचाष्पयोर्निमित्ती भवन्तीति चेदुच्यते, यथाऽग्निदग्धपाषाणखण्डिकासु जलप्रक्षेपे विध्यातादप्यग्नेरुष्णस्पर्शवाष्पौ भवेतां तथा शीतसंयोगे सत्यप्यत्रापीति । एवमन्यत्रापि बाप्पोष्णस्पर्शयोर्निमित्तं सचित्तमचित्तं वा यथासम्भवं वक्तव्यं । इत्थमेव शीतकाले पर्वतनितम्बस्य निकटे वृक्षादीनामधस्ताच्च य ऊष्मा संवेद्यते सोऽपि मनुष्यवपुरूष्मावज्जीवहेतुरेवावगन्तव्यः । एवं ग्रीष्मकाले बाह्यतापेन तैजस For Private & Personal Use Only स्याद्वादभा. ॥ १० ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40