Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शुभवि. कृ.
॥१३॥
तन्निरोधः संवरः । तेषां मिथ्यात्वाविरतिकषाययोगानामात्रवाणां सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षादिभिर्निरोधो निवारणं स्थगनं संवरः । पर्यायकथनेन व्याख्या । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । स च देशसर्वभेदाद् द्वेधा, तत्र बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेषकाले सम्यक्त्वप्रतिपत्तेरारभ्य देशसंवरः ६ । जीवस्य कर्मणा अन्योन्यानुगमात्मा | संबन्धो बन्धः । तत्र बन्धनं बन्धः परस्पराश्लेषो जीवप्रदेशपुद्गलानां क्षीरनीरवत् । अथवा बध्यते येनात्मा पारतन्त्र्यमापाद्यते ज्ञानावरणादिना सबन्धः पुद्गलपरिणामः ७ । बद्धस्य कर्मणः शाटो निर्जरा । वद्धस्य जीवेन सम्बद्धस्य कर्मणो ज्ञानावरणादे:शाद: शाटनं द्वादशविधेन तपसा विचटनं सा निर्जरा, सा च द्विविधा सकामाऽकामभेदात् तत्राद्या चारित्रिणां दुष्करतपश्चरणकायो | त्सर्गकरणद्वाविंशतिपरीषहपरीषहणपराणां लोचादिकायक्लेशकारिणामष्टादशशीलाङ्ग रथधारिणां वाह्याभ्यन्तरसर्वपरिग्रहपरिहारिणां निष्पतिकर्मशरीरिणां भवति । द्वितीया त्वन्यशरीरिणां तीव्रतीव्रतरशारीरमानसानेकदुस्सहदुःखशतसहस्रसहनतो भवति८ । देहादेररात्यन्तिको वियो ! गो मोक्षः । देहादेः शरीरपञ्चकेन्द्रियायुरादिवाह्यप्राणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकपायादिसङ्गाज्ञानासिद्धत्वादेरात्य न्तिको विरहः पुनर्मोक्ष इष्यते । यो हि शश्वद्भवति न पुनः कदाचिन्न भवति स आत्यन्तिकोऽत्र परः प्राह- ननु भवतु देहस्यात्यन्तिको वियोगस्तस्य सादित्वात्परं रागादिभिः सहात्यन्तिको वियोगोऽसंभवी प्रमाणबाधनात् । प्रमाणं चेदं यदनादिमत् न तद्विनाशमाविशति यथाकाशम् अनादिमअन्तश्च रागादय इति । उच्यते । यद्यपि रागादयो दोषा जन्तोरनादिमन्तस्तथापि कस्यचिद्यथावस्थितस्त्रीशरीरादिवस्तु तत्त्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते ततः संभाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षतो निर्मूलमपि क्षयः, निर्मूलक्षयानभ्युप
Jain Education Innal
For Private & Personal Use Only
स्याद्वादभा.
॥१३॥
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40