Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 35
________________ स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति स्कन्धेष्वष्टावपि यथासंभवं वक्तव्याः। रसाः तिक्तकटुकषायाम्लमधुराः लवणो |मधुरान्तर्गत इत्येके संसर्गज इत्यपरे। गन्धौ सुरभ्यसुरभी । कृष्णादयो वर्णाः । तद्वन्तः पुद्गला इति । न केवलं पुद्गलानां | स्पर्शादयो धर्माः शब्दादयश्चेति दर्श्यन्ते । शब्दबन्धसौक्षम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः ।। अत्र पुद्गलपरिणामाविष्कारी मतुष्प्रत्ययो नित्ययोगार्थ विहितः । तत्र शब्दो ध्वनिः १ । बन्धः परस्पराश्लेषलक्षणः प्रयोगविस्रसादिजनितः।। औदारिकादिशरीरजतुकाष्ठादिश्लेषवत् परमाणुसंयोगजवद्वेति २। सौक्ष्यं सूक्ष्मता ३॥ स्थौल्यं स्थूलता ४ । संस्थानमाकृतिः ५। भेदः खण्डशो l भवनं ६ । तमश्छायादयः प्रतीताः सर्वएवैते स्पर्शादयः शब्दादयश्च पुद्गलेष्वेव भवन्तीति। पगला द्वेधा परमाणवः स्कन्धाश्च । तत्र परमाणोर्लक्षणमिदं "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च । १।" एते धर्माधर्माकाशकालपुद्गला जीवैः सह षड् द्रव्याणि । एष्वाद्यानि चत्वार्येकद्रव्याणि जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्त्तानि । पुद्गलास्तु मूर्ती एवेति २। सत्कर्मपदलाः पुण्यं । सन्तस्तीर्थकरत्वस्वर्गादिफलनिवर्तकत्वात्प्रशस्तकर्मणां पुद्गला जीवसम्बद्धाः कर्म-18 वर्गणाः पुण्यमित्यर्थः ३ । तद्विरीतं तु पापं । तुर्भिन्नक्रमे तस्मात्पुण्याद्विपरीतं नरकादिफलनिवर्त्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः ४ । बन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव आस्रवः । असदेवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्व। हिंसाद्यनिवृत्तिरविरतिः । प्रमादो मद्यविषयादिः । कषायाः क्रोधादयः । योगा मनोवाकायव्यापाराः। बन्धस्य ज्ञानावरणीयादिकर्मबन्धस्य हेतवः कारणानि आस्रवति कर्म येभ्यः स आस्रवस्ततो मिथ्यात्वादिविषया मनोवाकायव्यापारा एवाशुभकर्मबन्धहेतुत्वादास्रव इत्यर्थः ५। Jain Education Intern For Privale & Personal use only A liainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40