Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गमेऽपचयस्याप्यसिद्धेः यथा हि शीतस्पर्शसंपाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वर्मन्दतायां मन्दा उपलब्धा उत्कर्षे च निरन्वयविनाशिनः । एवमन्यत्रापि मन्दतासद्भावे निरन्वयविनाशोऽवश्यमेष्टव्यः । अथ यथा ज्ञानावरणीयकर्मोदये ज्ञानस्य मन्दता भवति तत्प्रकर्षे च ज्ञानस्य न निरन्वयो विनाशः एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्तमुच्छेदो भविष्यतीति । तदयुक्तम् । द्विविधं हि वाध्यं सहभूस्वभावं सहकारिसंपाद्यस्वभावं च । तत्र यत्सहभूस्वभावं तन्न बाधकोत्कर्षे कदाचिदपि निरन्वयं विनाशमाविशति ज्ञानं चात्मनः सहभूस्वभावम् आत्मा च परिणामिनित्यस्ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकर्मोदये ज्ञानस्य न निरन्वयो विनाशः । रागादयस्तु लोभादिकर्मविपाकोदयसंपादितसत्ताकाः ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमपगच्छन्ति । प्रयोगश्चात्र । ये सहकारिसंपाद्या यदुपधानादपकर्षिणः ते तदत्यन्तटद्धौ निरन्वयविनाशधर्माणः यथा रोमहर्षादयो वह्निवृद्धौ । भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागादयः ९ । इति प्रमाणनयतत्त्वं व्यवस्थाप्य वस्तुनिर्णयार्थ वादमाह । विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः|विरुद्धयोरेका प्रमाणेनानुपपद्यमानोपलम्भयोर्द्धमयोर्मध्यादिति।तत्प्रारम्भकश्चात्र जिगीषुस्तत्व
तीषश्च। तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते प्रथममेव च तत्त्वनिर्णिनीषुरिति द्वावपि प्रारम्भको भवतः । तत्र स्वीकृत धर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छुर्जिगीषुः । स्वीकृतो धर्मः शब्दादेः कथंचिन्नित्यत्वादिर्यस्तस्य । व्यवस्थापनार्थ यत्सामर्थ्यात्तस्यैव साधनं परस्य च दूषणं ताभ्यां कृत्वा परं पराजेनुमिच्छर्जिगीषुरित्यर्थः । तथैव तत्त्वं प्रतिष्ठापयिषुस्तत्त्वनिर्णिनीषुः । तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दादेः कथंचिन्नित्यत्वादिरूपं तत्त्वं प्रतिष्ठापयितुमि
Jan Education.in
For Private
Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40