Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शुभवि. कृ.
॥१४॥
च्छ्रुस्तत्त्वनिर्णिनीषुरित्यर्थः । अयं च द्वेधा स्वात्मनि परत्र च । अयमिति तत्त्वनिर्णिनीषुः कश्चित्खलु संदेहाद्युपहतचेतोवृत्तिः स्वात्मनि तत्त्वं निर्णेतुमिच्छत्यपरस्तु परानुग्रहिकतया परत्र तथेति द्वेधाऽसौ तत्वनिर्णिनीषुः सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त | इति स्वात्मनि परत्र च तत्त्वनिर्णयं चिकीर्षुरित्यर्थः । तदिदमिह रहस्यम् । परोपकारैकपरायणस्य कस्यचिद्वादिवृन्दारकस्य परत्र तत्त्वनिर्णिनीपोरानुषङ्गिकं फलं जयो मुख्यं तु परतत्त्वावबोधनम् । जिगीषोस्तु विपर्यय इति । प्रारम्भकप्रत्यारम्भकावेव मल्लप्रति - मन्यायेन वादिप्रतिवादिनी । प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म । वादिप्रतिवा | दिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः । वादिप्रतिवादि - नोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविवरणं | यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि । उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यमित्येकः । स्वात्मनि तत्त्वनिर्णिनीषुः परच परत्र द्वौ वा परस्परमित्येवं द्वावपि यदा तत्त्वनिर्णिनीषू भवतः तदा यावता तत्त्वस्य निर्णयो भवति तावत्ताभ्यां स्फूत्तौ सत्यां वक्तव्यम् । अनिर्णये च यावत्स्फुरति तावद्वक्तव्यम् । एवं च स्थितमेतत् “स्वं स्वं दर्शनमाश्रित्य, सम्यक् साधनदूषणैः जिगीषोर्निर्णिनीपोर्वा, वाद एकः कथा भवेत्। १ । भङ्गः कथात्रयस्यात्र, निग्रहस्थाननिर्णयः । श्रीमद्रत्नाकरग्रन्थाद्धीधनैरवधार्यताम् | २||' श्रीहीर विजयसूरीश्वरचरणाम्भोजचञ्चररीकेण । शुभविजयाभिधशिशुना दृब्धा स्याद्वादभाषेयम् । ३ । इति श्रीहीरविजयसूरीश्वर शिष्यपण्डितशुभ विजयगणिना श्रीविजयदेवसूरीश्वरनिर्देशात् प्रमाणनयतत्त्वप्रकाशिकापरनाम्नी स्याद्वादभाषा समर्थिता ॥
॥ इति श्रीशुभविजयकृता स्याद्वादभाषा समाप्ता ॥
Jain Education Intell
For Private & Personal Use Only
स्याद्वादभा.
॥१४॥
jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40