________________
शभवि.क.
स्याद्वादभा.
धोनिखातद्रविणराशेःस्वप्ररोहणावष्टनं तथा वटापष्पलनिम्बादीनांपादृट्जलधरनिनादशिशिरवायुसंस्पर्शादकराद्भेदः। तथा मत्तकामिनीसनूपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसुमो दः तथा युवत्यालिङ्गनात् पनसस्य तथा सुरभिमदिरागण्डकसेकाकुलस्य तथा सुरभिनिर्मलजलसेकाचम्पकस्य तथा कटाक्षवीक्षणात्तिलकस्य तथा पञ्चमस्वरोद्गारात् शिरीषस्य विरहकस्य च पुष्पविकिरणं तथा पद्मादीनां प्रातर्विकसनं घोषातक्यादिपुष्पाणां च सन्ध्यायां कुमुदादीनां तु चन्द्रोदये तथासन्नमेघदृष्टौ शम्या अवक्षरणं। तथा वल्लीनां वृत्त्याद्याश्रयोपसर्पणं । तथा लज्जालूप्रभृतीनां हस्तादिसंस्पर्शात्पत्रसोचादिका परिस्फुटा क्रियोपलभ्यतेऽथवा सर्ववनस्पतेर्विशिष्टर्तुष्वेव फलप्रदानानचैतदनन्तराभिहितं तरुसंबन्धि क्रियाजालं ज्ञानमन्तरेण घटते तस्मात् सिद्धं चेतनावत्वं वनस्पतेरिति । तथा यथा मनुष्यशरीरं हस्तादिच्छिन्नं शुष्यति तथा तरुशरीरमपि पल्लवफलकुसुमादिच्छिन्नं विशोषमुपगच्छद् दृष्टं न चाचेतनानामयं धर्म इति। तथा यथा मनुष्यशरीरं स्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकं एवं वनस्पतिशरीरमपि भूजलाद्याहाराभ्यवहारादाहारक, न चैतदाहारकत्वमचेतनानां दृष्टं अतस्तद्भावात्सचेतनत्वमिति । तथा यथा मनुष्यशरीरं नियतायुष्कं तथा वनस्पतिशरीरमपि । तथा यथा मनुष्यशरीरमिष्टानिष्टाहारादिप्राप्तौ वृद्धिहान्यात्मकं तथा वनस्पतिशरीरमपि । तथा यथा मनुष्यशरीरस्य तत्तद्रोगसंपर्काद्रोमपाण्डुत्वोदरवृद्धिशोफकृशत्वालिनासिकानिम्नीभवनविगलनादि तथा वनस्पतिशरीरस्यापि तथा रोगोद्भवात्पुष्पफलपत्रत्वगाद्यन्यथाभवनपतनादि । तथा यथा मनुष्यशरीरस्यौषधप्रयोगाद् वृद्धिहानिक्षतभुग्नसंरोहणानि तथा वनस्पतिशरीरस्यापि । तथा यथा मनु-M यशरीरस्य रसायनस्नेहायुपयोगाद्विशिष्टकान्तिरसबलोपचयादि तथा वनस्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरसवीर्यस्निग्धत्वादि । तथा यथा स्त्रीशरीरस्य तथाविधदोहृदपूरणात्पुत्रादिप्रसवनं तथा वनस्पतिशरीरस्यापि तत्पूरणात्पुष्पफलादिप्रसवनमित्यादि तथा च प्रयोगो-वनस्पतयः सचेतनाः बालकुमारवृद्धावस्था १ प्रतिनियतवृद्धिस्वापप्रबोध २ स्पर्शादिहेतुकोल्लाससङ्कोचाश्रयोपसर्पणादि
Jain Education inayana
For Privale & Personal use only
olaw.jainelibrary.org