Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शुभवि. कृ.
॥९॥
१ । श्रोत्रादीन्युपलब्धिसाधनानि कर्तृप्रयोज्यानि करणत्वात् कुठारादीव २। देहस्यास्ति विधाता आदिमत्प्रतिनियताकारत्वात् घट- स्याद्वादभा. वत् । यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति यथाऽभ्रविकारः। यश्च देहस्य कर्त्ता स जीवः ३ । तथा इन्द्रियाणामस्त्यधिष्ठाता करणत्वात् । यथा दण्डचक्रादीनां कुलालः ४ । विद्यमानभोक्तृकं शरीरं भोग्यत्वात् भोजनवत् यश्च भोक्ता स जीवः ५ । तथा । रूपादिज्ञानं कचिदाश्रितं गुणत्वात् रूपादिवत् ६ । तथा ज्ञानसुखादिकमुपादानकारणपूर्वकं कार्यत्वात् घादिवत् ७ । तथा प्रतिपक्षवानयमजीवशब्दः व्युत्पत्तिमतशुद्धपदप्रतिषेधात् यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् यथाऽघटो घटप्रतिपक्षवान, अत्र हि अघटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य निषेधोऽतोऽवश्यं घटलक्षणेन प्रतिपक्षेण भाव्य, यस्तु न प्रतिपक्षवान् न तत्र व्युत्पतिमतः शुद्धपदस्य प्रतिषेधो यथा अखरविषाणशब्दः अडित्य इति वा ॥ ८ ॥ तथा स्वशरीरे स्वसंवेदनप्रत्यक्षमात्मानं साधयित्वा परशरीरेऽपि सामान्यतोदृष्टानुमानेन साध्यते यथा परशरीरेऽप्यस्त्यात्मा इष्टानिष्टयोः प्रवृत्तिनिवृत्तिदर्शनात् यथा स्वशरीरे । दृश्यते च परशरीरे इष्टानिष्टयोः प्रवृत्तिनिवृत्ती, तस्मात्तत्सात्मकं, आत्माभावे तयोरभावात् यथा घटे ९ । नास्ति जीव इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वेनान्तरीयक एव निषेधशब्दत्वात्, यथा नास्त्यत्र घट इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगश्चात्र । इह यस्य निषेधः क्रियते तत्कचिदस्त्येव यथा घटादिकं, निषिध्यते च भवता तस्मादस्त्येवासौ । यच्च सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते यथा पञ्चभूतातिरिक्तषष्ठभूतस्येति १० । स च द्विविधो मुक्तः सांसारिकश्च । तत्र मुक्तः सकलकर्ममलक्षयभागेकप्रकारः । सांसारिकश्चतुर्विधस्सुरनारकमनुष्यतिर्यग्भेदात् । तत्र सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाच्चतुर्विधाः । नारका रत्नप्रभापृथिव्यायधिकरणभेदेन सप्तधा | मनुष्या द्विप्रकारा गर्भजसम्मूर्छजभेदात् । तिर्यंचोऽप्येकद्वित्रिचतुःपञ्चे
Jain Education interlobal
For Private & Personal Use Only
Aaw.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40