Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शुभवि.कृ.
॥८॥
इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात करिकुरङ्गातुरङ्गशब्दवदित्यादि ६ । क्रियाश्रयेण भेदप्ररूपणमेवम्भूतः शब्दानां | || म्याटामा. स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नवंभूतः यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते । क्रियानाविष्ट वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः । यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् घटशब्दप्रवृत्तिनिमित्तभूताक्रियाशून्यत्वात्पटवादित्यादि । अत्र संग्रहश्लोकाः । “ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः। १ । सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् सङ्ग्रहो मतः । २ । व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः । ३ । तत्रजेंसूत्रनीतिः स्याद् बुद्धिपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावस्थितिवियोगतः । ४ । विरोधिलिङ्गसंख्यादिभेदाद्भिन्नस्वभावताम्।तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते । ५ । तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् । ६ । एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते । ७। " एतेषु प्रथमे चत्वारोऽर्थनिरूपणप्रवणत्वादर्थनयाः।शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः।पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः। तत्र सन्मात्रगोचरसङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद् बहुविषयः। सद्विशेषप्रकाशकाद् व्यवहारात्सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः। वर्तमानविषयाजुसूत्राद व्यवहारस्त्रिकालविषयावलम्बित्वाद्बहुविषयः । कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाइजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः । प्रतिपर्यायशब्दम
४ ॥८॥ र्थभेदमभीप्सतः समभिरूढात् शब्दस्तद्विपर्ययानुयायित्वात्मभूताविषयः । प्रतिक्रियं विभिन्नमर्थ प्रतिजाननादेवंभूतात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः। नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिनिषेधाभ्या सप्तभङ्गीमनुव्रजति । प्रमाणवदस्य
Jain Education intelll
For Privale & Personal Use Only
SUjainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40