Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 24
________________ शुभवि. कृ. ॥७॥ Jain Education Inte ❖❖❖❖❖❖❖❖ | पिण्डखर्जूराः सन्ति त्वरितं गच्छत गच्छत शावकाः । प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं संख्याभ्यासः । सामान्यमेव विशेष एव तदूद्वयं वा स्वतन्त्रमित्यादिरस्य विषयाभासः॥ अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं तस्य तदाभासमिति । प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नयः । स्वाभिप्रेतादंशादितरांशापलापी पुनर्नयाभासः । स व्याससमासाभ्यां द्विप्रकारः । व्यासतो ऽनेकविकल्पः । समासतस्तु द्विभेदो द्रव्यार्थिक. पर्यायार्थिकश्व | आद्यो नैगमसङ्ग्रहव्यवहारभेदात्रेधा । तत्र अन्यान्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः । धर्मयोर्धर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नेगमः ॥ पर्याययोर्द्वव्ययोर्द्वव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपो नैके गमा बोधमार्गा यस्यासौ नैगमो नाम नयः प्रवचनप्रसिद्धनिलयनप्रस्थदृष्टान्तद्वयगम्यः । उदाहृतिर्यथा सञ्चैतन्यमात्मनीति धर्मयोः १ वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः २ क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ३ इति । धर्मद्वयादीनामेकान्तिकप्रार्थक्याभिसन्धिर्नैगमाभासः । यथात्मनि सत्त्वचेतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादि । सामान्यमात्रग्राही परामर्शः सङ्ग्रहः । सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति सङ्ग्रहः । अयमुभयविकल्पः । परोऽपरश्च । तत्राशेषविशेषेष्वौदासीन्यं | भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रहः । यथा विश्वमेकं सदविशेषादिति । सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्त| दाभासः यथा सत्चैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलं I For Private & Personal Use Only स्याद्वादभा. 116 11 www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40