Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विमानः पुनरपरसङ्ग्रहः यथा धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादि । द्रव्यत्वादिकं प्रतिजानानस्तद्वि
निहमवानस्तदाभासः यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरिति । सद्विशेषप्रकाशको व्यवहारः॥ साहेण गोचरीकृतानामर्थानां विधिपूर्वकं विभागेन स्थापनं येनाभिसन्धिना क्रियते स व्यवहारः यथा यत्सत्तत् द्रव्यं पर्यायो । वेत्यादि । यः पुनरपारमार्थिकं द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः यथा चार्वाकदर्शनमिति ३ । प
यार्थिकश्चतुर्धा | ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च । तत्र शुद्धपर्यायग्राही ऋजुसूत्रः ॥ ऋजु वर्तमानक्षणस्थायि । पर्यायमात्र प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः यथा सुखक्षणः सम्पत्यस्तीत्यादि।सर्वथा द्रव्यापलापी तदाभासः यथा ताथागतमतमिति ४ । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानःशब्दः। कालादिभेदेन कालकारकलिङ्गसङ्खयापुरुषोपसर्जनभेदेनेति । यथा बभूव भवति भविष्यति सुमेरुरित्यादि । तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृसिद्धान्यशब्दवदित्यादि ५। पर्यायध्वनिभेदादर्थनानात्वनिरूपकः समभिरूढः॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन समभिरूढः, शब्दनयो हि पर्यायभेदेप्याभेदमभिति, समभिरूढस्तु पर्यायभेदे भिन्नानानभिमन्यते अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते यथा इन्दनादिन्द्रः शकनात्शक्रः पूर्दारणात्पुरन्दर इत्यादिषु । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः। यथा इन्द्रः शक्रः पुरन्दर
Jain Education in
For Privale & Personal use only
Owww.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40