Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 23
________________ येणापि दृष्टान्ताभासो नवधा असिद्धसाध्यव्यतिरेको १ । ऽसिद्धसाधनव्यतिरेको २। सिद्धोभयव्यतिरेकः । सन्दिग्धसाध्यव्यतिरेकः ४॥ सन्दिग्धसाधनव्यतिरेकः ५ । सन्दिग्धोभयव्यतिरेको ६। ऽव्यतिरेको ७। ऽप्रदर्शितव्यतिरेको ८ विपरीतव्यतिरेकश्च । एषु भ्रान्तमनुमानं प्रमाणत्वाद् यत्पुनर्भ्रान्तं न भवति न तत्प्रमाणं यथा स्वमज्ञानमित्यसिद्धसाध्यव्यतिरेकः स्वम्मुज्ञानाद् भ्रान्तत्वस्यानिवृत्तेः । १ । निर्विकल्पकं प्रत्यक्ष प्रमाणत्वाद् यत्तु सविकल्पकं न तत्पमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्ममाणत्वस्यानिवृत्तेः २। नित्यानित्यः शब्दः सत्त्वाद्यस्तु न नित्यानित्यः स न सन् तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यात्तेः ३ । असज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद् यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः ४॥ अनादेयवचनः कश्चिद्विवाक्षितः पुरुषो रागादिमत्त्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः ५ न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपयानर्पितनिजपिशितशकलत्वात् यस्तु वीतरागःस करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तवथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः ६। न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वाद् यः पुनतिरागो न स वक्ता यथोपलखण्ड इत्यव्यतिरेकः ७ । अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः ८ । अनित्यः शब्दः कृतकत्वाद् यदकृतकं तनित्यं दृष्टं यथाऽऽकाशमिति विपरीतव्यतिरेकः ९ । इति । उपनयाभासो यथा परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इतिचेति। इह साध्यधर्म साध्यधर्मिणि साधनधर्म वा दृष्टान्तधर्मािण उपसंहरतः उपनयाभासः । तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति चेति । अत्रापि साधनधर्म साध्यधर्म वा दृष्टान्तधर्मिणि उपसंहरतो निगमनाभासः । अनाप्तवचनप्रभवं ज्ञानमागमाभासः। यथा-मेकलकन्यकायाः कूले तालहिन्तालयोमूले सुलभाः Jain Education into For Prve & Personale Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40