Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शुभवि. कृ.नादिमत्त्वादिति २। विपक्षेप्यविरुद्धवत्तिरनैकान्तिकः अनित्यः शब्दः प्रमेयत्वात् । यस्यान्यथानुपपत्तिः सन्दिह्यते । स्याद्वादभा.
सोऽनैकान्तिकः स च द्वधा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । निीता विपक्षे वृत्तिर्यस्य स निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वादिति । सन्दिग्धा विपक्षे वृत्तियस्य स सन्दिग्धविपक्षवृत्तिको यथा विवादपदापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वादिति अन्वये दृष्टान्ताभासा असिद्धसाध्यसाधनोभयाः अपौरुषेयः शब्दः मूर्तत्वादिन्द्रियसुखपरमाणुघटवत् । विपरीतान्वयश्च यदपौरुषेयं तदमूर्तं विद्युदादिनातिप्रसङ्गात् । व्यतिरकेऽसिद्धतद्वयतिरेकाः । परमाण्विन्द्रियसुखाकाशवत् विपरीतव्यतिरेकश्च यन्नामूनें तनापौरुषेयमिति । साधम्र्येण दृष्टान्ताभासो । नवधा तत्र साध्यधविकलः १ । साधनधर्मविकलः २ । उभयधविकलः ३ । सन्दिग्धसाध्यधर्मा ४ । सन्दिग्धसाधनध
र्मा ५ । सन्दिग्धोभयधर्मा ६ । अनन्वयः ७ । अप्रदर्शितान्वयः ८ । विपरीतान्वयश्च ९ । तत्र साध्यधर्मविकलो यथाऽपौरुभषेयः शब्दोऽमूर्त्तत्वात् दुःखवदिति ? । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ परमाणुवदिति साधनधर्मविकलः २ । मूर्त्तत्वात्परमाणोः
कलशवदित्युभयधर्मविकलः इति । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतो कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्त्तत्वाच साध्यसाधनोभयधर्मविकलता ३ । तथा रागादिमानयं वक्तृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा४ । मरणधर्मायं रागादिमत्त्वान्मैत्रवदिति सन्दिग्धसाधनधर्मा५ । नायं सर्वदशी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोभयधर्मा ६ । रागादिमान् विवक्षितः पुरुषो वक्तृत्वादित्यनन्वयः ७। अनित्यः शब्दः कृतकत्वाद् घटवदित्यप्रदर्शितान्वयः ८ । अनित्यः शब्दः कृतकत्वाद्यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः ९ । इति । वैध-8
Jan Education inte
For Private & Personal Use Only
Srininelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40