Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ शुभवि.कृ. रथ । तत्र लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः । सहजसामर्थ्यसङ्केताभ्यामर्थबोध (निबंध)नं शब्दः। अकारादिः स्यादवाभा. पौगलिको वर्ण इति । तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु । अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोतराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थकियोपपत्तेश्च ॥ तस्य प्रमाणस्य विसीयन्ते निबध्यन्ते विषयिणोऽस्मिन्निति विषयो गोचरः परिच्छेद्यमितियावत् । सामान्यविशेषौ वक्ष्यमाणलक्षणावादिर्यस्य सदसदायनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति । सामान्यं देधा तिर्यगृर्द्धतादिभेदात् । सदृशपरिणामस्तिर्यग् खण्डमुद्गादिगोत्ववत् । तत्र प्रतिव्यक्ति तुल्या परिणतिस्तियक्सा न्यं शवलाशावलेयादिपिण्डेषु गोत्वं यथेति । परापरविवर्त्तव्यापिद्रव्यमुटुंता, मुदिव स्थासादिषु, पूर्वापरपरिणामसाधारणद्रव्यमूर्द्धतासामान्यं । कटककडूणाद्यनुगामिकाञ्चनवदिति । विशेषश्च द्वेधा पर्यायव्यतिरेकभेदात् । एकस्मिन् द्रव्ये क्रमभाविनः पर्यायाः, आत्मनि हर्पविषादादिवदिति । विसदृशपरिणामो व्यतिरेको गोमहिपादिवदिति । अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् । यत्प्रमाणेन साध्यते तदस्य फलं तद् द्विविधमानंतर्येण पारम्पर्येण च । तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः । पारम्पर्येण हानोपादानोपक्षाबुद्धयश्च फलम् । तत्प्रमाणाद भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानपपत्तेः। तस्यकममातृतादात्म्येन प्रमाणादर्भदव्यवस्थितेः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः, यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्याददात्युपेक्षते चेति प्रतीतेः । साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात्, कर्ता हि साधकः स्वतन्त्रत्वात् क्रिया तु साध्या कर्तृनिवर्त्यत्वादिति । Jain Education a nal For Private & Personal Use Only VIDhaw.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40