Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ शुभवि. कृ. ॥ ४॥ Jain Education In अन्तरात् स्वरूपव्यावृत्तिरितरेतराभावो यथा पटस्वभावाद् घटस्वभावव्यावृत्तिरिति । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावो यथा चेतनाचेतनयोरिति क्षीरे दध्यादि यत्रास्ति प्रागभावः स उच्यते । नास्तिता पयसो दक्षि प्रध्वंसाभावलक्षणम् । १ । गवयेऽश्वाद्यभावस्तु सोs - न्योन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवज्र्जिताः । २ । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते । इति " उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिर्विरुद्धोपलब्धिश्च तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा, साध्येनाविरुद्धव्याप्यकार्यकारणपूर्व चरोत्तरचरसहचरभेदात् । ततो व्याप्याविरुद्धोपलब्धिः ॥ १ ॥ कार्याविरुद्धोपलब्धिः ॥ २ ॥ कारणाविरुद्धोपलब्धिः । ३ । पूर्वचराविरुद्धोपलब्धिः । ४ । उत्तरचराविरूद्धोपलब्धिः । ५ । सहचराविरुद्धोपलब्धि । ६ । वेति । यथा | परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी दृष्टो यथा घटः कृतकश्चायं तस्मात्परिणामी, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः कृतकञ्चायं तस्मात्परिणामी । १ । अस्त्यत्र पर्वते वह्निः धूमसमुपलंभात् । २ । अस्त्यत्र छाया छत्रात् । ३ । उदेष्यति शकटं कृत्तिकोदयात् । ४ । उदगाद्भरणिः प्राक्कृत्तिकोदयात् । ५ । अस्त्यत्र सहकारफले रूपं रसात् । ६ । इति । विरुद्धव्याप्याद्युपलब्धिः प्रतिषेधे षोढा । तत्र विरूद्धव्याप्योपलब्धिर्यथा नास्त्यत्र शीतस्पर्श उष्णात् । १ । विरुद्धकायोपलब्धिर्यथा नास्त्यस्य क्रोधाद्युपशान्तिर्वदनविकारात् । द्वितीयोदाहरणं यथा नास्त्यत्र शीतस्पर्शो धूमात् । २ । विरूद्धकारणोपलब्धिर्यथा नात्र शरीरिणि मुखमस्ति हृदयशल्यात् । ३ । विरुद्धपूर्वचरोपलब्धिर्यथा नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । ४ । विरुद्धोत्तरचरोपलब्धिर्यथा नोदगाद भरणिर्मुहूर्त्तात्पूर्वं पुष्योदयात् । ६ । विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति । ६ । For Private & Personal Use Only स्याद्वादभा. ॥ ४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40