Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ नुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षयाऽत्रोक्तमव्युत्पन्नमतिप्रतिपाद्यापेक्षया तु धूमोज दृश्यत इत्यादि हेतुवचनमात्रात्मकमपि तद्भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्साक्षात्सूत्रे सूत्रितमुपलक्षितं तु द्रष्टव्यं । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवतीति । साध्यस्य प्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुपसंहारवत्पक्षप्रयोगोप्यवश्यमाश्रयितव्यः यथा यत्र धूमस्तत्र धूमध्वजः। व्युत्पन्न प्रति हेतुप्रयोगस्तथोपपत्त्याऽन्यथानुपपत्त्यैव वा । तथैव साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्तिः । अन्यथा साध्याभावप्रकारेणानुपपत्तिरेवान्यथानुपपत्तिस्ताभ्यामिति । यथाग्निमानयं प्रदेशः, तथा धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्ती द्वितीयप्रयोगस्यैकत्रानुपयोगः । अन्तात्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिर्व्याप्तेरुद्भावनं व्यर्थ । मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । प्रतिबंधप्रतिपत्तेरास्पदं दृष्टान्तः। स द्वेधाऽन्वयव्यतिरेकभेदात् । साधनसत्तायां यत्रावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयदृष्टान्तो यथा यत्र धूमस्तत्र वह्निर्यथा महानस इति । साध्याभावेसाधनस्याभावो यत्र कथ्यते सव्यतिरेकदृष्टान्तो यथा वह्नयभावे न भवत्येव धूमो यथा जलाशय इति । हेतोरुपसंहार उपनयो यथा धूमश्चात्र प्रदेशे इति । प्रतिज्ञायास्तपसंहारो निगमनं । यथा तस्मादग्निरत्रेति । एते पक्षादयः पश्चाप्यवयवाः प्रकीर्त्यन्ते । स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् । उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च । तत्र विधिः सदंशः प्रतिषेधोऽसदंशः स चतुर्दा प्रागभावः १ प्रध्वंसाभावः २ इतरेतराभावो ३त्यन्ताभाव ४श्च। तत्र यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावो यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति । यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावो यथा कपालकदंबकोत्पत्तौ नियमतो विपद्यमानस्य घटस्य कपालमाला इति । स्वरूपा-18 ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ Jain Education inte For Privale & Personal use only Olw.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40