Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दकादेव प्रामाण्यस्यापि निणयास्त्विति तदपि कथं स्वतो निर्णीतं स्यात, निर्विशेषणं चेदर्थप्राकट्यमर्थापत्युत्थापकं तीप्रमाणेऽपि प्रामाण्यनिर्णायकार्थापत्त्युत्थापनापत्तिर्थप्राकट्यमात्रस्य तत्रापि सद्भावादितिध्येयं ॥ तद द्विविधं प्रत्यक्षंच परोक्षंचा स्पष्टं प्रत्यक्षा प्रबलतरज्ञानावरणवीांतराययोः क्षयोपशमात क्षयाद्वा स्पष्टताविशिष्टं वैशिष्टयास्पदीभूतं यत्तत्प्रत्यक्षं, स्पष्टत्वं चानुमानाद्याधिक्येन विशेपप्रकाशनं । तद् द्विविधं सांव्यवहारिकं पारमार्थिकं च । बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षं । परमार्थे भवं पारमार्थिक मुख्यमात्मसन्निधिमात्रापेक्षमवध्यादिप्रत्यक्षमिति। तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियमित्तं च । इन्द्रियाणि चक्षुरादीनि । तत्र चक्षुर्वानि प्राप्यकारीणीति ननु इन्द्रियज्ञाने मनोऽपि व्यापिपर्तीति कथं न तेन व्यपदेशः, उच्यते इन्द्रियस्यासाधारणकारणत्वान्मनःपुनरनिन्द्रियज्ञानेऽपि व्याप्रियत इति साधारणं तद्, असाधारण्येन च व्यपदेशो दृश्यते यथा पयःपवनातपादिजन्यत्वेप्यड्डुरस्य बीजेनैव व्यपदेशः शाल्यङ्करः कोद्रवारोऽयमिति । अनिन्द्रियं मनोनिमित्तमिति । एतद्वितयमवग्रहावायधारणाभेदादेकैकशश्चतर्विकल्पं । तत्र विषयविषयियोग्यदेशावस्थानानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः । अवगृहीतार्थविशेषाकाङ्क्षणमीहा । ईहितविशेषनिर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणेति । कथंचिदभेदेपि परिणामविशेषादेषां व्यपदेशभेदः । क्रमोप्यमीषामयमेव तथैव संवेदनादेवंक्रमाविर्भूतनिजकमक्षयोपशमजन्यत्वाचान्यथा प्रमेयानवगतिप्रसङ्गो, नखल्वदृष्टमवगृह्यते, न चाऽनवगृहीतं सन्दिह्यते, न चासंदिग्धमीह्यते, न चानीहितमवेयते, न चानवेतं धार्यते । कचित्क्रमस्यानुपलक्षणमेषामाशूत्पादादुत्पलपत्रशतव्यतिभेदवादिति । पारमार्थकं पुनरुत्पत्तावात्ममात्रापेक्षं । तद्विकलं सकलं च । असंपूर्णपदार्थपरिच्छे
Jain Education Intern
For Privale & Personal use only
jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40