Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 21
________________ प्रमाणस्वरूपादेरन्यत्तदाभासम् । अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पसमारोपाः प्रमाणस्य स्वरूपाभासाः। यथा संनिकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनविपर्ययसंशयानध्यवसायाः प्रमाणाभासाः यथा द्विचन्द्रादिज्ञानं, विभङ्गश्च प्रत्यक्षाभासम् । अतस्मिंस्तदिति ज्ञानं स्मरणाभासम् । यज्ञदत्ते स देवदत्तो यथा । असदृशे तदेवेदं तस्मिंश्च तत्सदृशमित्यादिज्ञानं प्रत्यभिज्ञानाभासं यमलज्ञानवत् । तुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्यमित्यादिज्ञानं प्रत्यभिज्ञानाभासं युगलजातज्ञानवदिति । असंबन्धे तद्ज्ञानं तर्काभासं । यावांस्तत्पुत्रः स श्याम इति । असत्यामपि व्याप्तौ तदाभासस्ताभासः, व्याप्तिरविनाभावो । यथा स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रीतनयः स श्याम इति । अनुमानाभासमिदं-पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासम् । अनिष्टादिः पक्षाभासः । अनिष्टो मीमांसकस्यानित्यः शब्दः । सिद्धः श्रावणः शब्दः । बाधितः प्रत्यक्षानुमानागमलोकस्वचनैरनुष्णोऽग्निरित्यादिवत् । असिद्धविरुद्धानकान्तिका हेत्वाभासाः ॥ प्रमाणेनासिद्धान्यथानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् । तत्र यस्य प्रमाणेनासिद्धाऽन्यथानुपपत्तिः सोऽसिद्धः । स द्विविध उभयासिद्धोऽन्यतरासिद्धश्च, तत्र उभयस्य वादिप्रतवादिसमुदायस्यासिद्ध उभयासिद्धो यथा परिणामी शब्दः चाक्षुषत्वादिति । अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धोऽन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादिति । विपरीतान्यथानुपपत्तिविरुद्धः, अनित्यः पुरुषः प्रत्यभिज्ञानादिमत्त्वात् । साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरवसीयते स विरुद्धः, यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदासौ विरुद्धो हेत्वाभासो यथा नित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञा Jan Education international For Private Personal use only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40