Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शुभवि. कृ.
स्याद्वादभा.
दकत्वाद्विकलं । तद्विपरीतं तु सकलं । तत्र विकलमवधिमनःपयायज्ञानरूपतया द्वेधा। अवीधज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् । संयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाज्जातं मनोद्रव्यपर्यायालंबनं मनःपर्यायज्ञानम् । सकलं तु सामग्रीविशेपतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारस्वरूपं केवलज्ञानमिति । तद्वानहन्निर्दोषत्वानिर्दोषोऽसौ प्रमाणाविरोधिवाक्त्वात्तदिष्टस्य प्रमाणेनावाध्यमानत्वात्तद्वाचस्तेनाविरोधसिद्धिरिति ।। | अस्पष्टं परोक्षं। प्राक्मूचितस्पष्टत्वाभावभ्राजिष्णु यत्पमाणं तत्परोक्ष, तच्च स्मरणप्रत्यभिज्ञानता मागमभेदात्पञ्चप्रकारम् । तत्र संस्कारप्रबोधसंभूतार्थविषयं तदित्याकारं ज्ञानं स्मरणं, तत्तीर्थकरबिंबमिति यथेति । अनुभवस्मृतिहेतुकं तिर्यगूलतासामान्यादिगोचरं सडुलनात्मकं ज्ञानं प्रत्यभिज्ञानम् । यथा तज्जातीय एवायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्तः इत्यादि। उपलभानुपलभसंभवं त्रिकालीकलितसाध्यसाधनसंवन्धद्यालंबनमिदमस्मिन् सत्येव भवतीत्याकारं ज्ञानमूहापरनामा तर्कः । यथा यावान् कश्चिधूमः स सर्वो वह्रौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येवेति । अनुमानं द्विप्रकारं स्वार्थ परार्थं च । तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वाथै । निश्चितान्यथानुपपत्येकलक्षणो हेतुः। इष्टमबाधितमसिद्ध साध्यं । तद्विशिष्टः प्रसिद्धो धर्मी पक्षः । धर्मिणः प्रसिद्धिः कचिद्विकल्पतः कुत्रचित्प्रमाणतः कापि विकल्पप्रमाणाभ्यां । विकल्पोऽध्यवसायमात्रं । विकल्पसिद्ध धर्मिणि सत्तेतरे साध्ये । अस्ति सर्वज्ञो नास्ति खरविषाणं । प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता, अग्निमानय देशः, परिणामी शब्दो यथा । पक्षहेतुवचनात्मकं पराथेमनमानमुपचारातू । पक्षहेतुवचनात्मकत्वं च पराथो
Jain Education inde
For Privale & Personal use only
T
iw.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40