Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
.०००
स्यावादमा.
शुभवि. कृ. साधकतम करणम् ' अतिशयितं च साधकं साधकतमं प्रकृष्ट कारणमित्यर्थः। ननु साधकं कारणं हेतुरिति पर्यायास्तदेव न ज्ञायते किं तत्कारण
मित्युच्यते 'कार्यानुकृतान्वयव्यतिरेक कारणं तच्चात्मेन्द्रियायेव यथा मृत्पिण्डचक्रादिकं घटस्य । तच्च कारणं त्रिविधं परिणामिनिवर्तकनिमित्तभेदात् तत्र परिणामिकारणमात्मा यथा मृत्पिण्डायेव घटादितया परिणमतीति घटे मृत्पिण्डः पटे तन्तव इत्यादिपरिणामिकारणं । ननु मृत्पिण्डसंबन्ध इव चक्रादिसम्बन्धोऽपि घटते तत्कथं घटे मृत्पिण्डः पटे तन्तवो न चक्रतुर्यादयः परिणामिकारणं । सत्यं । द्विविधः सम्बन्धः | संयोगो विष्वभावश्च तत्र साध्यसाधनयोर्गुणगुणिनोरवयवावयविनोस्संबन्धोऽविष्वग्भावस्तादात्म्यं स्वरूपसंबन्ध इति यावत् । स्वरूपसंबन्धत्वं च संबन्धान्तरमन्तरेणापि विशिष्टप्रतीतिजननयोग्यत्वमिति । नचात्र समवायसबन्धस्तस्य भावद्वयधर्मत्वादयुतसिद्धयोश्च संबन्धस्समवायः, अयुतसिद्धत्वे च "तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ ययोर्द्वयोः । अविनश्यदेकमपराश्रितमेवावतिष्ठते॥१॥इति" तस्मान्मृत्पिण्डघटयोरविषग्भाव एव संवन्धः, मृत्पिण्डचक्रयो विष्वग्भावस्तत्स्वरूपाभावान्नहि मृत्पिण्डश्चक्रतया परिणमति नापि चक्रं मृत्पिण्डतया अतस्तयोः संयोग एव संवन्धः। निवर्तकं कारणमात्मैव यथा कुम्भकारः कुंभस्य । निमित्तकारणं चक्षुर्घटादय उपग्राहका । यथा दण्डादयो घटस्य । तदुक्तं । निवर्तको |निमित्तं परिणामी च त्रिधेष्यते हेतुः । कुंभस्य कुंभकारोध" मृचेति समसंख्यः॥ १॥इति । निमित्तकारणं च द्वेधा निमित्तकारणमपेक्षा कारणं च । यत्र दण्डादिषु प्रायोगिकी वैससिकी च क्रिया भवति तानि दण्डादीनि निमित्तकारणानि । यत्र च धर्मास्तिकायादिद्रव्येषु वैस
सिक्येव तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनाथेमपेक्षाकारणान्युच्यन्ते । M हिताहितप्राप्तिपरीहारसमर्थ हि प्रमाणमतो ज्ञानमेवेदं । तद् व्यवसायस्वभावं समारोपविरुद्धत्वात् । अतस्मिंस्तदध्यवसायः समारोपः । सच
संशयविषयविपर्ययानध्यवसायभेदात्रिधा । तत्र साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्शि ज्ञानं संशयः यथायं स्थाणुर्वा पुरुषो वेति ।
०००००
20.०
॥१॥
Jain Education inte
For Privale & Personal use only
X
ww.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40