Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 826
________________ 5 परिच्छेदः। सरखतीकण्ठाभरणम् / 733 दण्डसमग्राणां.किमेषामस्ति दुष्करम्' इति श्लेषोपसर्जनार्थान्तरन्यासः / भवन्ति चारविन्दानि कोषदण्डसमग्राणि तेनं तेषां न किंचिदशक्यमस्ति कोषदण्डयोर्विजयसाधनत्वात् / एतेन श्लेषस्य साधनभूतार्थसमर्थकत्वादुपमायास्तु प्रस्तुतसाध्यवस्तुविशेषकत्वादर्थान्तरन्यासं प्रत्यङ्गभावो विज्ञायते। सर्वेषां समकक्षता यथा. 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः / असत्पुरुषसेवेव दृष्टिनिष्फलतां गता // 504 // - ननु चाबन्धः समत्वात्स्यादिति कथं सर्वेषां तुल्यकक्षतया संबधोत्पत्तिः एवं मन्यते ये उत्प्रेक्षोपमादयोऽलंकारा विभावानुभावव्यभिचार्यादिवर्णनापरतया रसादेरङ्गतां प्रतिपद्यन्ते तदा भवत्येव तेषां तुल्यकक्षतेति / तत्र 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः' इति द्वे उत्प्रेक्षे, 'असत्पुरुषसेवेव दृष्टिनिष्फलतां गता' इत्युपमा च वर्णनीयस्य तमस उद्दीपनविभावभूतस्य समतयैवोत्कर्षप्रतिपादकत्वेनाङ्गभावमुपगतेति नास्तिं लक्षणानुपपत्तिरिति / ननूपमा इमास्तिस्रोऽपि कस्मानोच्यन्ते / इवो हि वाक्यान्तरेषूपमाया एव दृश्यते / मैवम् / उपमानोपमेयशब्दप्रतिपन्नस्य सादृश्यार्थस्य द्योतनमिवेन क्रियते न च लिम्पतीत्यादावुपमानमुपमेयं वास्ति यत्सादृश्यद्योतनाय इवः प्रयुज्येत / न च तिङन्तेनोपमानमस्ति तस्य साध्यार्थाभिधायित्वेनासत्त्वार्थत्वात् / / . 1 'प्रभवन्ति' क.ख. 2. 'तेन किं तेषां' क.ख. 3. 'साधनमानभूतार्थ' ख. 4. 'विफलतां गता' क.ख. 5. 'ननु च तमसश्च नभसश्च असतश्च संबन्धसमत्वात' क.ख. 6. 'व्यभिचारिवर्णनापरा' क.ख. 7. 'द्वे' ख. नास्ति. 8. 'प्रागभावम्' ख. 9. 'नैवम्' क. 10. 'उपमानोपमेयं प्रति यत्तस्य' ख. 11. 'प्रयुज्यते' ख. 12. 'असत्त्वार्थकत्वात ख

Loading...

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894