Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 177
________________ Vol. XX, 1996 तर्कभाषावार्तिकम् 169 [साधकबाधकप्रमाणाभावेन संशयस्य न्यायप्राप्तत्वात् ।] साधकेति । साधकत्वं हि वस्तुनः सत्त्वं प्रत्यायति, बाधकमसत्त्वं च । तदुभयाभावात् सन्देहो न्याय्यः ॥ [तच्चानुमानं द्विविधम् । स्वार्थ परार्थं चेति । स्वार्थं स्वप्रतिपत्तिहेतः ।] स्वार्थमिति । स्वस्थानमेयप्रतिपत्तिलक्षणं प्रयोजनं यस्माद् भवति तत् स्वार्थम् । [तथा हि स्वयमेव महानसादौ विशिष्टेन प्रत्यक्षेण धूमाग्न्योाप्ति गृहीत्वा....] विशिष्टेनेति । उपाध्यभावभूयोदर्शनजनितसंस्कारसनाथेनेत्यर्थः । [पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वतवर्तिनीमविच्छिन्नमूलाम_लिहां धूमलेखां पश्यन्...] अविच्छिन्नेति । शमितवन्यादौ व्यभिचारवारणायाविच्छिन्नमूलामिति । गोपालघटिकाधूमादौ व्यभिचारनिरासार्थम् 'अभ्रंलिहाम्' इति ॥ [तथा हि यत्र यत्र धूमवत्त्वं तत्राग्निमत्त्वं, यथा महानसे इत्यन्वयव्याप्तिः ।] अन्वयव्याप्तिरिति । भावपुरस्सरा साधनपुरस्सरा व्याप्तिरन्वयव्याप्तिरिति । एवं यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा महादे' इतीयं व्यतिरेकव्याप्तिः । व्यतिरेकव्याप्तिरिति । व्याप्तिद्वैविध्यमुक्तम् । व्यतिरेकव्याप्तेश्यं क्रम इति । व्याप्यव्यापकभावो हि भावयोर्यादगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥१॥ अन्वये साधनं व्याप्यं, साध्यं व्यापकमिष्यते । साध्याभावोऽन्यथाव्याप्यो व्यापकः साधनात्ययः ॥२॥ व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठमेव च । व्याप्यं गमकमादिष्टं व्यापकं गम्यमिष्यते ॥३॥ व्याप्यस्य वचनं पर्वं व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः स्फुरीभवति तत्त्वतः ॥४॥ ननु हेतुत्रैविध्यमाह । केवलान्वयी, विपक्षाभाववान् । केवलव्यतिरेकी, सपक्षाभाववान् । अन्वयव्यतिरेकी च सपक्षविपक्षभाववान् । तत्र केवलव्यतिरेकी यथा 'जीवत् शरीरं सात्मकं, प्राणादिमत्वाद्' इत्यत्र 'शरीरं सात्मकम्' इत्युक्ते मृतशरीरे बाधः । तद्वारणाय 'जीवद्' इति तावद्युक्ते जीवात्मनि बाधः । तद्वारणायोद्देशसिद्धये च 'शरीरम्' इति शरीरावयवेऽपि पक्ष एव, अन्यथा हेतुसाध्यनिश्चयदशायामन्वयित्वं स्यात् सपक्षे सत्त्वादिति । 'प्राणादि' इत्यत्रादिशब्देनात्र प्राणापाननिमेषोन्मेषजीवनमनागतीन्द्रियान्तर्विकाराः सुखदुःखेच्छाद्वेषप्रयत्नश्चात्मनो लिङ्गानि प्रयोगप्रकारं दर्शयति । 'तथा' इत्यादिना देहातिरिक्तमात्मानमनङ्गीकुर्वाणं चार्वाकवराकं प्रति देहातिरिक्त आत्मा साध्यते । शरीरमात्रपक्षीकरणे मृतशरीरे भागासिद्धिः । अत उक्तम्'जीवद्' इति ॥ ननु धूमानुमाने महानसवन्निश्चितसाध्यो नास्ति, सर्वस्य जीवच्छरीरस्य पक्षकुक्षिनिक्षिप्तत्वात् । दृष्टान्ते धर्मिणि दृष्टो धर्मस्तव्याप्तेन हेतुना पक्षे विधीयते, विपक्षे वा साध्यनिवृत्त्या साधननिवृत्तिः । अत्र तु सात्मकत्वं प्राणादिमत्त्वव्यापकत्वेन क्वापि न दृष्टम, अतः कथं जीवच्छरीरे प्राणादिमत्त्वेन सात्मकत्वसिद्धिः ? कथं च घयदिषु सात्मकत्वनिवृत्त्या प्राणादिमत्त्वनिवृत्तिः ? इति चेद्, उच्यते - लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं सद् दृष्टान्त इति पयदिषु नैरात्म्यं, प्राणादिमत्त्वं चेत्यस्मिन्नर्थे सर्वसम्प्रतिपत्तिरस्ति । अतः कथंकार नायं दृष्टान्तः ?

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220