Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 182
________________ 174 नारायण म. कंसारा SAMBODHI पूर्वपूर्वेति । एतच्चोपलक्षणम् । पूर्वपूर्ववृत्तिजातिविषयकसंस्कारसहकृतेनेत्यपि बोध्यम् । तेन च तज्ज्ञानजातिज्ञानाभावात् कथं तत्प्रकारकं ज्ञानमित्यपास्तम् । एतेन चरमवर्णज्ञानकाले कथं प्रथमादिवर्णज्ञानं, प्रत्यासत्यभावात न चातीतस्य वर्णस्य श्रोत्रसमवायोऽस्त्येवेति वा, समवायांशरूपप्रत्यासत्त्या हि प्रथमादिवर्णज्ञानं लौकिकमेव स्यान्न त्वलौकिकमयोग्यत्वात, तदपि न सम्भवति, विषयाभावादिति दूषणं परास्तं, पदस्थसंस्कारस्यैव प्रत्यासत्तित्वात् । न च तर्हि पदज्ञानसंस्कारजन्यत्वेन स्मृतित्त्वापत्तिरिति वाच्यं, संस्कारत्वेन तज्जन्यत्वस्य स्मृतित्वप्रयोजकत्वात् । अन्यथा प्रत्यभिज्ञायां स्मृतित्वापत्तेः इह च प्रत्यासत्तित्वेन संस्कारजन्यत्वमिति न स्मृतित्वापत्तिः । एतेन चरमवर्णसन्निकर्षाभावात् कथं तदवगाहिनी पदप्रतीति[रिति]शङ्का निरस्ता । पदेति 'विभक्त्यन्तं पदम्' [-स्त्यादिविभक्तिः । तदन्तं पदम् (सि. है. शं. १।१।१९-२०)] । पदसङ्केतग्रहणानुगृहीतेनेत्यर्थः। एकदेत्येकामेवेत्यर्थः । तेन समूहलक्षणं सुस्थमित्याशयः ॥ ननु यदि असवर्णविशेष्यमपि ज्ञानं श्रोत्रेण जन्यते तदाऽनागताशेषवर्णविषयकमपि ज्ञानं जन्येतेत्यत आह - सहकारीति । तत्र संस्काराभावात् तत्र सहकारीत्याशयः । इयत्प्रकारप्रबन्धेन पदप्रतीति व्युत्पाद्य वाक्यप्रतीति व्युत्पादयति - [तदिदं वाक्यमाप्तपुरुषेण प्रयुक्तं सच्छब्दनामकं प्रमाणम् ।] तदिदमिति । तदयं शब्द इत्यर्थः ॥ प्रत्यभिज्ञेति । ननु इन्द्रियस्य संनिहितमात्रविषयत्वात् संस्कारस्य च पूर्वानुभवमात्रविषयत्वात् तत्तदन्तोभयविषय- ज्ञानजनने तयोः सामर्थ्याभावात् ग्रहणस्मरणात्मके द्वे इमे ज्ञाने चेन्न, सोऽयं देवदत्त इति ज्ञाने पूर्वापरकालावच्छिन्नमेकं वस्तुतत्त्वं तावच्चकास्ति, न च तस्य विषयो न भवतीति समस्ति सर्वजनीनानुभावविरोधात्, ग्रहणस्मरणे च नैकं विषयमवगाहते । तस्मादेकमेवेदं ज्ञानमिति चक्षुरादिप्रत्यक्षानुमानोपमानागमप्रमाणजन्यमनुभवज्ञानं, तज्जन्यः संस्कारः, तज्जन्या स्मृतिः, तज्जन्यं प्रत्यभिज्ञानम् । एतदुदाहरणानि यथा - 'घटोऽयम्' इति इदन्ता विशेषणेनानुभवत्वज्ञानं १ 'स घटः' इति तत्ताविशेषणेन स्मृतित्वज्ञानं २ 'सोऽयं घटा' तत्ता-इदन्ता विशेषणेन प्रत्यभिज्ञानम् ३ इति ॥ ननु चतुर्णा प्रमाणानां कानि करणानीत्यत्र ब्रूमः । प्रत्यक्षम् । अक्षमिन्द्रियम् । इन्द्रियं प्रतिगतम् । इन्द्रियाधीनतया यदुत्पद्यते तत् प्रत्यक्षमिति तत्पुरुषः । नन्वक्षिशब्दादपि प्रतिपूर्वात् 'प्रतिसमनुभ्योऽक्षः' इति सूत्रेणाव्ययीभावसमासान्ते टचि प्रत्यक्षमिति सिध्यति [इति,] उच्यते । एवमपि 'प्रत्यक्षो बोधः', 'प्रत्यक्षा बुद्धिः' इत्यत्र पौत्रं स्त्रीणं च न प्राप्नोति । न ह्यत्र मत्वर्थीयोऽर्थो घटते, प्रत्यक्षस्वरूपस्यैव वेदनस्य बोधबुद्धिशब्दाभ्यामभिधानाद् इति । प्रत्यक्षं प्रमाणं सप्तप्रकारं, पञ्च बुद्धीन्द्रियाणि चक्षुरादीनि षष्ठं मनः, सप्तममीश्वरप्रत्यक्षम् । ईश्वरस्येन्द्रियं नास्ति । ईश्वरः साक्षात् पश्यतीति । षड्विधं लौकिकं, सप्तममलौकिकं च । तत्र प्रत्यक्षप्रमाणे चक्षुरादिः करणम् । सन्निकर्षोऽवान्तरव्यापारः । घटदिज्ञानं प्रत्यक्षप्रमा फलमिति । व्याप्तिज्ञानं करणम् । लिङ्गपरामर्शो द्वारम् । अनुमितिः फलमिति । केचिल्लिङ्गं करणं, परामर्शो द्वारम्, अनुमितिः फलमिति १। अन्येऽनिर्व्यापारः स्वपरामर्श एव करणम्, अनुमितिः फलमित्यपरे इति २। उपमानप्रमाणे 'यथा गौस्तथा गवयः' इति वाक्यज्ञानं करणम् । 'गोसादृश्यो गवयः' इति वाक्यार्थस्मरणमवान्तरव्यापारः । गवयपिण्डज्ञानमुपमितिप्रमाणफलमिति ३। 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्याद्याप्तवाक्यं करणं, पद्समुदायसङ्केतग्रहोऽवान्तरव्यापारः, वाक्यार्थज्ञानं शाब्दीप्रमा फलमिति ४। चतुर्यु प्रमाणेषु चत्वारिकरणानि चत्वारोऽवान्तव्यापाराश्चतस्रः प्रमाश्चेति । प्रत्यक्षप्रमाणे त्वयं विशेषः । चक्षुरादीनि षट् करणानि, . षडवान्तरव्यापाराः षट्प्रमाश्चेत्यष्टादशप्रकारा भवन्तीति ।। . जान

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220