Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 181
________________ Vol. xx, 1996 तर्कभाषावात्तिकम् 173 घटवदभतलमिति वावये प्रयोक्तु राप्तत्वप्रसङ्गात् । नान्त्यः, कदाचिद् घटवति भूतले घटाभावदशायां 'घटवभूतलम्' इति वाक्यप्रयोक्तुराप्तत्वप्रसङ्गात् । इति वाक्यं त्विति आप्तवाक्यं त्वित्यर्थः । तेन शब्दप्रमाणलक्षणेनाप्तपदवैयर्थ्यमिति ध्येयम् । यस्य पदस्य येन पदेन विनाऽन्वयबोधाजनकत्वं तत् तेन साकाङम । प्रकृतवाक्यार्थावबोधो योग्यता, अन्वयबोधविरोधिव्यवधानाभावः । अत्र तु शब्द आकाङ्कारहितस्य पदसमूहस्य वाक्यत्वनिवृत्त्यर्थः ॥ आकाङ्का द्विविधा, शाब्दी आर्थी च । शाब्द्यपेक्षयाऽऽर्थी फलवतीति योग्यताविरहः । कथमित्याह - 'कर्तकरणयोस्तृतीया' [पा० अष्टा० २।३।१८] इति करणार्थे तृतीयाविहितत्वात् तया करणत्वं प्रतिपादितं चेद, भवत, को दोषः ? इत्याह - [न चाग्निः सेके करणीभवितुं योग्यः ।] न चेति । अभूततद्भावे च्चिप्रत्ययः । अयोग्यत्वात् करणत्वं न सम्भवतीत्यर्थः ॥ आकाक्षापदकार्यमाह - [एवमेकैकशः प्रहरे प्रहरे असहोच्चारितानि 'गाम्' 'आनय' इत्यादि पदानि न वाक्यम् ।] एवमिति यथाश्रुते शङ्कते - [नन्वत्रापि न पदानि साकाङ्क्षाणि, किन्त्वर्थाः फलादीनामाधेयानां तीराद्याधाराकाक्षितत्वात् ।] नन्विति । अत्रापि साकाङ्कत्वाभिमतपदस्थलेऽपि यथाश्रुते एव समाधत्ते । [ सत्यम् । अर्थांस्तावत् स्वतद्वारेण तत्प्रतिपादकानि पदान्यपि साकाङ्क्षाणीत्युपचर्यन्ते ।] पदश्रोतर्यन्योन्यविषयाकाङ्क्षाजनकत्वेन साकाङ्क्षा इत्युच्यन्ते । सत्यमिति । स्वेति स्ववाचकेति । कोऽर्थः ? स्वशब्देनार्थः । तद्वाचकं, तस्य श्रोता पुरुपस्तस्मिन्नित्यर्थः । जनकत्वेनेति जनकज्ञानविषयत्वेन । [यद्वा पदान्येवार्थान् प्रतिपाद्यार्थान्तरविषयाकाङ्क्षाजनकानीत्युपचारात् साकाङ्क्षाणि ।] यवेति । परस्परविषयाकासाजनकज्ञानविषयत्वेनार्थाः साकाङ्काः, तत्प्रतिपाद्यत्वेन पदान्यपि साकाङ्क्षाणीति पूर्वमुक्तम् । इह तु अर्थाकाङ्क्षाप्रयोजकज्ञानविपयत्वेन पदानि साकाङ्क्षाणि, तत्प्रतिपादकत्वेन चार्थाः साकाङ्क्षा इत्युच्यते इति न पूर्वभेदः ॥ [सन्निहितत्वं तु पदानामेकेनैव पुंसाऽविलम्बेनोच्चारितत्वम् । तच्च साक्षादेव पदेषु सम्भवति नार्थद्वारा ।] अविलम्बेनेति । अन्वयबोधविरोधिविलम्बाभावेनेत्यर्थः । तेन तत्रैव तावद्भिरिति ध्येयम् । [ तेनायमर्थः सम्पन्नः । अर्थप्रतिपादनद्वारा श्रोतुः पदान्तरविषयामर्थान्तरविषयां वाऽऽकाङ्खा जनयतां प्रतीयमानपरस्परान्वययोग्यार्थप्रतिपादकानां सन्निहितानां पदानां समूहो वाक्यम् ।] [ पदं च वर्णसमूहः ।। पदं चेति । शक्तिमत् पदमित्यत्र तात्पर्यम् । तेनैकवर्णात्मके पदेऽतिव्याप्तिः । जबगडदशा इत्यादावतिव्याप्तिश्च न लगतीति बोध्यम् । 'साक्षाद्' इत्यव्यवधानेनेत्यर्थः । साक्षाच्छब्दव्यावृत्तिमाह - 'नार्थद्वारा' इति । येन पदानामाकालादित्रितयोपेतता साधिता तेन तादृशानां पदानां समूहो वाक्यमित्यर्थः ॥ [एवं च वर्णानां क्रमवतामाशुतरविनाशित्वेन एकदानेकवर्णानुभवासम्भत् पूर्वपूर्ववर्णाननुभूय,] अनुभूयेति । एतेन अनुभवाभावात् कथं तत्संस्कारसाहित्यं श्रोत्रस्येति शङ्का परास्ता । अन्त्यवर्ण श्रवणकाले पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकर्तृ केनान्त्यवर्णसम्बन्धेन पदव्युत्पादन समयग्रहानुगृहीतेन श्रोत्रेणैकदैव सदसदनेकवर्णावगाहिनी पदप्रतीतिर्जन्यते , सहकारिदायात प्रत्यभिज्ञानवत् । अन्त्यवर्णेति । एतेन प्रथमवर्णज्ञाने अन्त्यवर्णाभावात् तत्संस्काराभावात् कथं पदजनकमिति शङ्का निरस्ता ।। [प्रत्यभिज्ञाप्रत्यक्षे ह्यतीतापि पूर्वावस्था स्फुरत्येव । ततः पूर्वपूर्वपदानुभवजनितसंस्कारसहकृतेनान्त्यपदविषयेण श्रोत्रेन्द्रियेण पदार्थप्रत्ययानगहीतेनानेकपदावगाहिनी वाक्यप्रतीतिः क्रियते ।]

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220