Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 197
________________ तर्कभाषावार्त्तिकम् VoI.XX, 1996 केचित् तच्च निर्णयमात्रोद्देशप्रवृत्तकथात्वमिति मात्रपदान्तभावेन वादलक्षणमाहुः । तन्न, मात्रपदव्यवच्छेद्याभावात् । न हि वचिद् विजिगीषा बुभुत्सा चेति द्वयं सम्भवति येन तद्व्यवच्छेदः स्यात् । वादकथायां सभ्यो नास्ति । नापि मध्यस्थः । तत्कर्तव्यं च वीतरागाभ्यां ताभ्यामेव कर्तव्यम् । कथकगुणदोषविवेचनादि हितकृत्यं तच्च तत्र बुभुत्सायां ताभ्यामेव कर्तव्यम्, अन्यथा तत्त्वबोधानिर्वाहात् । अनुविधेयोऽपि राजादि लाभादिसम्पादनव्यापारकः । सोऽपि वादकथकयोरनपेक्षित इति सोऽपि न वादे । मध्यस्थस्तु बुद्धिपूर्वको न कर्तव्यः । यदि दैवादायाति तदा वारणीयोऽपि, तत्संवादे तत्स्थिरत्वनिर्णयसम्भवात् स चाष्टनिग्रहाणामधिकरणमिति ॥ 189 ननु केनाभिप्रायेणैतत् प्रतिज्ञाहानिः १ प्रतिज्ञासंन्यासः २ निरर्थकम् ३ अविज्ञातार्थम् ४ अर्थान्तरम् ५ अपार्थकं ६ चेति षट्कं तावन्न पतयत्येव वादे ? स्वाशक्तिनिगूहनार्थानामेषां वादे प्रयोगे तत्त्वार्थविप्रतिपत्तिव्याघातप्रसङ्गात् । स्वकृतोक्तिपरित्यागः प्रतिज्ञाहानिः १ सा पञ्चधा पक्षसाध्यहेतुदृष्टान्ततद्विशेपणपरित्यागात्, 'शब्दो नित्यः प्रत्यक्षगुणत्वात्, घटवद्' इत्युक्ते परेण प्रतिज्ञाबाधेन दूषिते, 'अस्तु तर्हि पटो नित्यः' इति पक्षपरित्यागः । तेनैव दूषणेन 'अस्तु नित्य एव शब्दः' इति स्वीकारे साध्यपरित्यागः । शब्दस्य द्रव्यत्वादिना स्वरूपासिद्धया हेतौ दूषयिते कृतकत्वादिहेतुप्रयोगे हेतुपरित्यागः । घटस्य द्रव्यतया दृष्टान्तसिद्धावभिधीयमानायां रूपे दृष्टान्तीकृते दृष्टान्तहानिरेव ॥ विशेषणहानिरप्युदाहार्या । उक्तापलापः प्रतिज्ञासंन्यासः । सोऽयं चतुः प्रकारः, 'क एवमाह' इति वा १, 'परपक्षो मयोक्तः' इति वा २, स्वोक्ते 'त्वयोक्तम्' इति वा ३, परोक्ते 'मयैवोक्तम्' इति वा ४, 'न चायंप्रकाराः सम्भवन्त्येव, वस्तुत्यागेन स्वीयतया विशेषणेन वाऽपलापेन वास्तवेन तन्निवृत्तिकामनासम्भवात् २, अवाचकप्रयोगो निरर्थकः, स च लिङ्गव्यत्ययादौ यथाशब्दमिति नित्यमिति ३, वादिना निरभिहितमपि परिपत्प्रतिवादिभ्यां दुर्बोधमज्ञार्थं यथा स्वशास्त्रासाधारणपरिषदादौ ४ । प्रकृतानुपयोग्यर्थान्तरं ५ अनन्वितमपार्थकं च प्रसिद्धमेव ६ । तदेतत् पट्कं वादे न पतत्येव ॥ यद्यप्यनुक्तत्वभ्रमात् हानिन्यासो वाचकत्वोपयुक्तत्वस्फुटार्थत्वादिभ्रमाच्चान्ये सम्भवन्ति, तथापि स्वाशक्ति निगूहनार्थं न सम्भवन्तीति कथासम्प्रदायतात्पर्यार्थः । किं चेत्, सम्भवदप्यनुद्भाव्यं यथा प्रतिज्ञान्तरं १, हेत्वन्तरम् २, अज्ञानम् ३, अप्रतिभा ४, विक्षेपो ५, मतानुज्ञा ६, पर्यनुयोज्योपेक्षणम् ७, इति सप्तकं परोक्तदूषणोद्धाराय । पूर्वोक्तविशेषणवतः पूर्वोक्तस्य साधनीयांशस्य प्रतिपादनं प्रतिज्ञान्तरं च द्वेधा पक्षविशेषणपूरणात् साध्यविशेषणपूरणाद्, यथा 'शब्दो नित्यः कार्यत्वाद्' इत्युक्ते ध्वनिनां शब्दतः सिद्धसाधने 'वर्णात्मक' इति विशेषणोपादाने 'आद्यविवादाध्यासितं बुद्धिमत्पूर्वकम्' इत्युक्तेऽन्यविषयकज्ञानवतासिद्धसाधने उपादानविपयत्वबुद्धिविशेषणत्वे चरमः 121, अविशिष्ट साधनं भागमभिधाय पुनर्विशेषणवत्तद्वचनं हेत्वन्तरं यथा 'शब्दोऽनित्यः प्रत्यक्षत्वाद्' इत्युक्ते सामान्ये व्यभिचारे जातिमत्त्वे सतीति विशेषणोपादानादौ 121, कथायां प्रकृतविषये स्वाज्ञानाविष्करणमज्ञानं सर्ववादिमध्यस्थाभ्यामभ्युदितेऽपि 'किमनेनोक्तमहं न जानामि' इत्याद्याकारः 1३1, उत्तरापरिस्फूर्तिरप्रतिभासाप्रसिद्धैव |४| कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः, यथा कथायां प्रवृत्तायाम् 'अद्य मया न वक्तव्यं, किञ्च कृत्यमस्ति' इत्यादि 141, सपक्षे दोषाभ्युद्गमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा, यथा 'त्वं चौर' इत्युक्ते 'त्वमपि चौर' इति कथनम् |६| निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणमित्यपि सुप्रसिद्धमेव ॥७॥ एतत् सप्तकं सम्भवदनुद्भाव्यम् ॥ ननु प्रतिज्ञान्तरं हेत्वन्तरं वाऽवश्योद्भाव्यं तदनुद्भावने साधनविशेषणसाध्यविशेषसिद्धेरसम्भावनेति, चेन्न । यत्र विशेषसाधनं नाभिप्रेतं तत्स्थलाभिप्रायेणैतदभिधानात् । तथैव कथकसम्प्रदायायातमतानुज्ञायाः प्रसङ्गाभासतया तदनुद्भावने तत्र व्याघात, इति चेन्न तस्याः प्रसङ्गाभासत्वात् । पर्यनुयोज्योपलक्षणं तु

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220