Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 195
________________ Vol. xx, 1996 तर्कभाषावार्तिकम् 187 [पक्षे लिङ्गोपसंहारवचन उपनयः ।] उपसंहारः सम्बन्धः । तद्बोधक: शब्द इत्यर्थः । तथा च 'अयम्' इत्येवमाकारमुपनयवाक्यं बोध्यमेव, धाप्रत्ययस्य प्रकारार्थत्वेऽसंगत्यापत्तेः ॥ [पक्षे साध्योपसंहार वचनं निगमनम् ।] साध्योपसंहार इति । अबाधितत्वेनासत्प्रतिपक्षत्वेन च साध्यवत्ताबोधकं वाक्यं निगमनमित्यर्थः । अत्र 'तस्मादग्निमान्' इत्याद्याकारमेव निगमनवाक्यम् । यदि व्युत्क्रमेणावयववाक्यानां प्रयोगस्तदाऽप्राप्तकालता बोध्या ॥] [तर्कोऽनिष्टप्रसङ्गः । स च सिद्धव्याप्तिकयोधर्मयोव्याप्याङ्गीकारेणानिष्टव्यापकप्रसञ्जनरूपः ।] तर्केति । प्रसञ्जनं प्रसङ्गः । अनिष्टस्य प्रसङ्गोऽनिष्टप्रसङ्गः । स एव तर्क इति । अत्रेयं प्रक्रिया बोध्या । व्याप्तिः १, तर्काप्रतिहतिः २, अवभासनं ३, विपर्ययो ४, निष्ठानुकूलत्वम् ५ इति तर्काङ्गपञ्चकम् । स तर्को द्विविधः, विषयपरिशोधको १ व्याप्तिग्राहकः २ चेति । व्याप्तिग्राहकस्यैवमाकारः, 'धूमो यदि अग्न्यसमवहिताजन्यत्वे सति अग्निसमवहिताजन्यः स्याद्' इत्यादि ११ विषयपरिशोधकस्यैवमाकारः, 'अयं धूमो यदि धूमाभावव्याप्यवन्यभाववान् स्याद्' इत्यादि । तर्कस्तु मानसमाहार्यं ज्ञानं 'धूमाभाववान् स्याद्' इति मात्रशरीरकमिति ज्ञेयम् । [अतोऽनुमानस्य भवत्यनुग्राहक इति ।] अनुग्राहकेति । तर्काऽनुग्रहान्तस्य प्रमाणस्य साधनत्वाद् अनुग्राहकः प्रसादकर्तेत्यर्थः ।। [निर्णयोऽवधारणज्ञानम् ।] निर्णयेति ॥ [तत्त्वबु भुत्सो: कथा वादः ।] वादेति । तत्त्वे ति । तत्त्वं ज्ञातुमिच्छो : पदार्थतत्त्वज्ञानाभिलापुकस्येत्यर्थः ॥ [उभयसाधनविजिगीषु कथा जल्पः ।] जल्पेति । वादिप्रतिवादिपक्षस्थापन परज्ञेयाभिकाङ्क्षोपपन्ना कथा जल्प इत्यर्थः स्वपक्षस्थापनानुमानपर्यन्ताश्चेत्यर्थः ॥ [स एव स्वपक्षस्थापनाहीनो वितण्डा ।] स एव जल्पः वितण्डेति । उभयपक्षवाचकवाक्य रचनेत्यर्थः । कथाभेदा वादजल्पवितण्डा इति ॥ [उक्तानां पक्षधर्मत्वादिरूपाणां मध्ये येनकेनापि रूपेण हीना अहेतवः । तेऽपि कतिपयहेतुरूपयोगाद्धेतुवदाभासमाना हेत्वाभासाः ।] हेत्वाभासेति । उक्तानामिति । यद्यपि पुरस्तादेतदुपन्यस्तं तथापि तत्रानुकूलविशेषणनिरूपणाय पुनरारम्भः । उदयनाचार्योदीरितसिद्धलक्षणमादाय 'मा कापीः दोपशङ्काम, अङ्गीकुरु यतिनश्च' इत्यादिना पुरःस्फुर्तिकस्यैव विरोधाद् अयं दूषणत्वमवलम्ब्य समाधान- । विधानं विदधति - तथापीत्यादिना [ तथापि यथा न साङ्कर्यं तथोच्यते । तेनैव पुरावस्फुर्तिकेन दुष्टौ ज्ञापितायां कथापर्यवसाने जाते तदपजीविनोऽन्यस्यानुपयोगात् ।] तेनैवेति । एकेन कृतकत्वाद इतरानर्थवयमिति न्यायेनैव दूपणानदुष्टत्वे ज्ञापितेऽपि दूपणान्तराभिधाने सति ॥ [अयमप्याश्रयासिद्धः । तथाहि घटोऽनित्यः कार्यत्वात् पटवदिति ।] अयमिति । ननु सिद्धसाधनो हेत्वाभासः कुत्रान्तर्भविष्यतीत्याशड्क्याह । आश्रयासिद्धे वाऽन्तर्भविष्यतीति वक्तुं प्रसङ्गं सम्पादयति 'अयम्' इत्यादिना इति ॥ विशेषणासिद्भस्योदाहरणं .. तत्रेति । [तत्र विशेषणासिद्धो यथा शब्दो नित्यो दव्यत्वे सत्यस्पर्शत्वात् ।] द्रव्यत्वमात्र न नित्यत्वसाधकं व्यणुकादावनैकान्तिकत्वात् । नाप्यस्पर्शवत्त्वमात्रं व्यणुकगतगुणादावनैकान्तिकत्वात् । तस्माद् विशिष्टस्यैव हेतुत्वमेष्टव्यम् । तथा च विशेषणं द्रव्यमात्रमसिद्ध, शब्दगुणत्वात् ॥

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220