Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 196
________________ 188 नारायण म. कंसारा SAMBODHI __ अनैकान्तिकं निरूपयति । [ साध्यसंशयहेतुरनैकान्तिकः सव्यभिचार इति वा उच्यते ।] संशयेति । एकान्ते नियत ऐकान्तिकः । तद्विपर्यययादनैकान्तिकः । तथा च तस्य संशयहेतुत्वमुक्तं भवति । साध्यवत तदभावस्यापि गमकत्वादिति भावः । भाष्योक्तलक्षणान्तरमाह - सव्यभिचार इति । विविधमभितश्चरणं व्यभिचारः । तेन सह वर्तत इति सव्यभिचार इत्यर्थः । तं विभजते - स इति द्विविध इति । [स द्विविधः । साधारणानैकान्तिकोऽसाधारणानैकान्तिकश्च ।] ननु साधारणस्यानैकान्तिकत्वं युज्यते, सपक्षविपक्षवर्तमानत्वात् । असाधारणस्य तु पक्षवृत्तित्वमेव नास्ति, तत् कथं तस्येत्याह - [तस्य च साध्यविपरीताव्याप्तस्य तन्नियमाभावो व्यभिचारः । तस्येति ।] नियमाभावश्च द्विधा घटते, उभयवृत्तेरुभयतो व्यावृत्तेश्च । द्विविधस्यापि व्यभिचारित्वं घटते ॥ [यस्य प्रतिपक्षभूतं हेत्वन्तरं विद्यते स प्रकरणसमः ।] यस्येति । उदाहरति-तद्यथेति । तद् यथा 'शब्दोऽनित्यो नित्यधर्मानुपलब्धेः', 'शब्दो नित्योऽनित्यधर्मानुपलब्धेः' इति । अपेक्षितं प्रतिपक्षं स्वरूपयति - अत्र हीति । [अत्र हि साध्यविपरीतसाधकं समानबलमनुमानान्तरं प्रतिपक्ष इत्युच्यते । समानबलग्रहणस्योपयोगमाह - यः पुनरिति [यः पुनरतुल्यबलो न स प्रतिपक्षः । ] ननु सर्वस्याप्यनुमानस्य व्याप्तिपक्षधर्मवत्तया समानबलत्वेनेत्याशड्क्याह-तथाहीति [ तथाहि विपरीतसाधकानुमानं त्रिविधं भवति ।] साध्याभावसाधकानुमानस्य त्रैविध्यं दर्शयति - विपरीतेति । [विपरीतसाधकानुमानं त्रिविधं भवति, उपजीव्यमुपजीवकमनुभूयं चेति ।] उपजीव्यस्यानुमानस्याधिकबलत्वेन बाधकत्वं, तथाहीत्यादिना 'अनित्याः परमाणवो, मूर्तत्वाद् घटवद्' इति वक्त्रा परमाणून् प्रमितानप्रमितान् पक्षीकृत्य प्रयोगः क्रियते । नाद्य आश्रयासिद्धेः । द्वितीयस्तु 'अनुमानेन सिध्यतः परमाणवो नित्यत्वेनैव सिद्धा इति कृत्वा तदुपजीवनेनानित्यत्व- साधकमयुक्तमिति भावः । उपजीवके दृष्टान्तमाह । [यथा 'अनित्यः परमाणुर्मूर्तत्वाद् घटवद्' इत्यस्य परमाणुसाधकानुमानं . नित्यत्वं साधयदपि न प्रतिपक्षः किं तु बाधकमेवोपजीव्यत्वात् तच्च धर्मिग्राहकत्वात् ।] यथेति । उपजीव्योपजीवकत्वाभावे न प्रबले दुर्बलत्वाभावेन सत्पतिपक्षत्वं तृतीयस्य घटते । प्रत्यभिज्ञेति पूर्वमनुभूते तत्कालान्तरेण पुनस्तस्यैवानुभवने प्रत्यभिज्ञाविशेषणसिद्धस्य विशेष्यासिद्धस्य चास्वस्वरूपा- सिद्ध्यान्तर्भावः । इदं यदुक्तं ग्रन्थकृता तत् तथैव चासमर्थविशेषणासिद्धस्यासमर्थविशेष्यासिद्धस्य च स्वरूपासिद्धेऽन्तर्भावो विशिष्टस्य हेतोः पक्षसद्भावात् । किन्त्वनयोाप्यत्वासिद्धेऽन्तर्भावो विशिष्टस्य गुणसमानाधिकरणाकारणकत्वादेगौरवेण व्याप्यत्वानवच्छेदकत्वादिति। किञ्च षडेव हेत्वाभासा इति मितभाषिण्याम्॥ [अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरं परिकल्प्य दूषणाभिधानं छलम् ।] छलमिति । त्रिविधम् । 'नवकम्बलोऽयम्' इत्यादिनावच्छेदकम् १। 'मञ्चाः क्रोशन्ति' इत्यादौ मञ्चशब्दस्य वृत्त्यन्तरेणार्थान्तरपरतयोच्चारितस्य मुख्यार्थतासम्भवमात्रेण कश्चिदाह 'न ह्यचेतनस्याक्रोशनं सम्भवति' इत्युपचारछलम् २। 'चतुर्वेदाध्यायी' इति 'ब्राह्मण' इति सम्भवमात्रेणोक्ते कश्चिदाह 'नैवम्' इति 'अनुमाने तदभावाद्' इति सामान्यछलम् ३॥ [असदुत्तरं जातिः ।] जातिरिति । उत्तरस्यासत्त्वं प्रयुक्त हेतौ दूषणासामर्थ्यम् । यदुक्तम् प्रयुक्त स्थापनाहेतौ दूषणेऽशक्तमुत्तरम् । जातिमाहुरथान्ये तु स्वव्याघातकमुत्तरम् ॥१॥ 'यथा कृतकत्वम् अनित्यत्वव्याप्तं तथा सावयवत्वं व्याप्तं न, किन्तु घटादौ क्वचित् सावयवत्वसहचरितं कृतकत्वम्' इति पक्षे तद्वशेनाविद्यमानस्य सावयवत्वस्यापादनम् उत्कर्षसमः ॥१५॥ निग्रहस्थानानीति गोवर्धन्यां वादपदार्थोक्तान्यपि निग्रहस्थानान्यत्रावसरप्राप्तत्वाद् विस्तरेणाह । अत्र

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220