Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
186
नारायण म. कंसारा
SAMBODHI
निरूपणात् ॥]
ननु प्रवृत्तिशब्देन कथं धर्माधर्मेति ? तत्राह - [प्रवृत्तिः धर्माधर्ममयी यागादिक्रिया, तस्या जगद्व्यवहारसाधकत्वात् ।] 'आयुर्घतम्' इत्यादिवत् साध्यवादिना साधनं लक्ष्यत इत्यर्थः ।।
इदानीं संशयमाह । [एकस्मिन् धर्मिणि विरुद्धनानार्थावमर्शः संशयः ।] एकस्मिन्निति । घटो रूपवान् परिमाण एवानित्यादिनिर्णयात्मकमित्यतिव्याप्तिवारणाय विरुद्धेति । तथापि 'यत् किञ्चिद विरोधिरूपाविषयकरूपवानयम्' इत्यादि निश्चयेऽतिव्याप्तिः स्यात् । तद्वारणाय नानेति । नानाधर्मिणि 'अयं पुरुषत्ववान्' 'अयं पुरुषत्वा भाववान्' इत्यादिनिश्चयेऽतिव्याप्तिवारणाय एकस्मिन्निति । एकत्र विरोधिकोद्धियावलम्बिज्ञानं संशय इत्यर्थः । सामग्रीभेदात् संशयस्य भेदमाह । [स च त्रिविधः । विशेषादर्शने सति समानधर्मदर्शनजः, विप्रतिपत्तिजः, असाधारणधर्मजश्चेति ।] समानेति साधारणधर्मः समानधर्मः । विरुद्धार्थप्रतिपत्तिः [विप्रतिपत्तिजः] । असाधारणेति सजातीयविजातीयव्यवच्छेदकधर्मोऽसाधारण- ' धर्मः । एभ्यो विशेषदर्शनस्मरणरहितेभ्यस्त्रिप्रकार: संशयः ।।
[येन प्रयुक्तः पुरुषः प्रवर्तते तत् प्रयोजनम् । तच्च सुखदुःखावाप्तिहानी] प्रयोजनेति । वातपित्तकफश्लेष्मरहितस्येति भावः ।।
1 [वादिप्रतिवादिनोः संप्रतिपत्तिविषयोऽथा दृष्टान्तः ।] दृष्टान्तेति । साध्यसाधनयोर्यत्र साहचर्यं स साधर्म्यदृष्टान्तः । तदभावयोर्यत्रसाहचर्यं स वैधादृष्टान्तः ॥
[प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः ।] सिद्धान्तेति । तन्त्र्यन्ते व्युत्पाद्यन्ते पदार्था अनेनेति व्युत्पत्त्या तन्त्रशब्दः शास्त्रवचनः । सर्वतन्त्राविरुद्धः स्वतन्त्राधिकृतश्च सर्वतन्त्रसिद्धान्तः १ । परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः २ । अनुमेयाऽनुषक्तासिद्धिरधिकरणसिद्धान्तः ३ । अपरीक्षिताभ्युपगमात् तद्विशेषणमभ्युपगमसिद्धान्तः ४ । [क्षित्यादिकर्तृसिद्धौ सर्वज्ञत्वम् ।] कर्तेति । कर्ता स ईदृशः । आदौ जानाति, पश्चादिच्छति, पश्चादिच्छन् प्रपद्यते, तदनुकरोतीति कर्तृलक्षणम् । तस्य कर्तुरित्यर्थः ॥
[अनुमानवाक्यस्यैकदेशा अवयवाः ।] अवयवेति । [प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । तत्र साध्यधर्मविशिष्टपक्षप्रतिपादकं वचनं प्रतिज्ञा ।] साध्य-विशिष्टेति । 'पर्वतोऽयम्' इत्यादिवाक्येऽतिव्याप्तिवारणाय साध्येति । 'इमौ वह्निपर्वतौ इत्यादिवाक्येऽतिव्याप्तिवारणाय विशिष्टेति । 'पर्वते वह्निः' इत्यादिवाक्येऽतिव्याप्तिवारणाय धर्मीति । तथा च साध्यविशेषणकपक्षविशेष्यकप्रतीति-प्रयोजकस्य 'पर्वतो वह्निमान्' इत्यादिरूपस्यैव वाक्यस्य प्रतिज्ञात्वमिति भावः ।।
[तृतीयान्तं पञ्चम्यन्तं वा लिङ्गप्रतिपादकं वचनं हेतुः ।] पञ्चम्यन्तमिति । अत्र तृतीयान्तमिति न देयम, अन्यथाऽनुगमात्, किञ्चैवं कथकसम्प्रदायविरोधापत्तेः, पञ्चम्यन्तत्वेनैव कथकसम्प्रदायसत्त्वात् । धूम इत्यादिशब्देऽतिव्याप्तिवारणाय पञ्चम्यन्तमिति । 'आ नितम्बादयं पर्वतो वह्निमान्' इत्यादिशब्देऽतिव्याप्तिवारणाय लिङ्गमिति । हेतुत्वप्रतिपादकमित्यर्थः । तेन 'गन्धात् पृथिवी, इतरेभ्योऽभिघातः' इत्यादिवाक्येनातिव्यापनं, यथा 'धूमवत्त्वादि' इति । अत्र धूमादित्येव हि वाक्यं बोध्यम् । न तुमो वैयर्थ्यमेव, हेतुमात्रस्यैवाकांक्षितत्वात् । अनाकांक्षिताभिधानेऽप्राप्तकालत्वात् ॥
[सव्याप्तिकं दृष्टान्तवचनमुदाहरणम् ।] सव्याप्तिकमिति । अनेन व्याप्तिर्बो ध्यते, न तु दृष्टान्ताभिधानार्थमद इति दृष्टान्तेति । 'न देयमेव । किन्तु व्याप्तिवचनमित्येवेति ॥

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220