Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
Vol. xx, 1996
तर्कभाषावार्तिकम्
185
भाव इति प्रश्ने प्रागभाव एव वक्तव्यस्तथा चान्याश्रय इति चेन्न, गन्धानाधारसमयानाधाराभावत्वस्य प्रागभावलक्षणत्वात् । गन्धस्यानाधारसमयो महाप्रलयसमयः स एवानाधारो यस्याभावस्य स प्रागभाव इत्यर्थः । सर्वेषां मते गन्धस्यैव विनाशात् गन्धग्रहणम् । नव्यास्यु नैयायिका अभावत्वं वा भवतु प्रागभावत्वादिकं वा भवतु, परमखण्डा एवैते उपोधय इत्यूचुः । त्रैकालिकेति सदातनः समयाभाव इत्यर्थः । सामयिकस्तु समयमात्र: अनादिसान्ताभावः प्रागभावः १ साद्यनन्ताभावः प्रध्वंसाभावः २ संसर्गाप्रतियोगिको भावः संसर्गाभावः ३ अनाद्यनन्ताभावस्त्रैकालिकोऽभावो चात्यन्ताभावः ४ [अन्योन्याभावस्तु तादात्म्यप्रतियोगिकोऽभावः ।] अन्योन्याभावस्त्विति । भेदश्चतुर्धा बोध्यः, स्वरूपभेद (१) -पृथक्त्वभेद (२) -वैधर्म्यभेद (३) -अतिरिक्तभेद (४) - भेदात् । तन्मध्ये भावव्युत्पन्नभेदशब्दार्थस्य लक्षणमिदम् । न च तादात्म्यात्यन्ता- भावेऽतिव्याप्तिः प्रतियोगितावच्छेदकारोपहेतुकधीविषयाभावत्वे तात्पर्यात् स्वरूपभेदादि । उदाहरणानि यथा । घटे पटस्वरूपं नास्ति, पटे घटस्वरूपं नास्तीति घटपटयोः स्वरूपत्वान्योन्याभावः १ । अस्माद् घटदयं घटः पृथग् इत्युल्लेखेन पृथक्त्वान्यो न्याभावः २ । शीतत्वमुष्णत्वविधर्म उष्णत्वं शीतत्वविधर्म इति विरोधान्योन्याभावस्तयोद्वयोर्विसदृशत्वात् ३ । घटत्वं पादतिरिक्त इति अतिरिक्तान्योन्याभावः ४ । अत्र भेदशब्दस्य भाववाचित्वात् स्वस्वरूपत्वपृथक्त्वविधर्मत्वादतिरिक्तग्रहणमित्यर्थः ॥
[ननु ज्ञानाद् ब्रह्मणो वा अर्था व्यतिरिक्ता न सन्ति । मैवम्, अर्थानामपि प्रत्यक्षादिसिद्धत्वेनाशक्थापलापत्वात् ।] प्रत्यक्षेति । ननु प्रत्यक्षत्वं स्वप्नप्रायमिति चेन्न, तत्रोत्तरक्षणावबोधासम्भवात् । तथात्र प्रत्यक्षत्वमिति एकात्मत्वे परत्र शरीरानुभूतोऽर्थः, स्मर्यते तत् तथात्रेति । बुद्धिरिति सत्त्वरजस्तमोगुणात्मिकाया: प्रकृतेः सत्त्वप्रधानः प्रथमविकारो महदाख्यः । चित्तान्त:करणादि शब्दतो बुद्धिः । बुद्धेविषयाकारः परिणामभेदो घट इत्यादिरूपः । ज्ञानविषयाकारेण परिणममानायां बुद्धौ प्रतिबिम्बितस्याचैतन्यात्मनः पुरुषस्य बुद्धिवृत्त्यनुकार उपलब्धिः । बुद्धेविषयसुखाद्याकारपरिणतिभेदः प्रत्यय इति ॥
[स्मरणमपि यथार्थमयथार्थं चेति द्विविधम् । तदुभयं जागरे, स्वप्ने तु सर्वमेव ज्ञानं स्मरणमयथार्थं च । दोषवशेन तदिति स्थान इदमित्युदयात् ।] स्वप्नेति स्वापे त्वेकत्वप्रकारमेव ज्ञानम् । तत्र युक्तिः स्वप्नज्ञानस्य संस्कारमात्रजन्यत्वेन स्मृतित्वम्, अननुभूते नैव, स्वप्नज्ञानानुदयाद् इति । यथार्थेति । यथार्थो द्विविधो निर्विकल्पसविकल्पभेदात् । तत्र निर्विकल्पकं प्रत्यक्षमेव । यथार्थं तु सर्वमेव सविकल्पकरूपम् । उपादानभेदाः ज्ञानस्य स्वयमूह्याः । स्वप्न इति सर्वमेव ज्ञानमनुभवस्वरूपं स्वप्नवहनाडीमनः-संयोगजन्यं स्मरणं स्मरणजन्यमित्यर्थः । अयथार्थत्वं च तत्रासंनिहितानां गजादीनां संनिहितत्वेन भासनादिति भावः ॥
[सर्व च ज्ञानं निराकारमेव । न तु ज्ञानेऽर्थेन स्वस्याकारो जन्यते, साकारज्ञानवादनिराकरणात् ।] साकारेति । मोदकादिज्ञानस्य मोदकाद्याकारापत्त्या मोदकादिभक्षणापत्त्या निराकरणादित्यर्थः । ज्ञानस्य साकारतां निराकर्तुमाह - सर्वमिति । तत्र युक्तिः साकारज्ञानवादस्य तीर्थकरैः प्रत्यादिष्टत्वादित्यर्थः । एवं चार्थानामपि नित्यानुमेयं पराकृतमित्याह - [अत एवाकारेणार्थानुमानमपि निरस्तं, प्रत्यक्षसिद्धत्वाद् घटादेः ।] अत एवेति । अतः शब्दपरामृष्टं हेतुं स्पष्टयति - प्रत्यक्षेति । अयं भावः । इन्द्रियसम्बद्धो विषयः स्वजन्यज्ञाने स्वाकारं समर्प्य नश्यति । तेन च कारणार्थोऽनुमीयत इति सर्वविषयानुमेयवादिनः सौगतस्य मतं, तदयुक्तम् । अतीतानागतविषयाणां ज्ञानानां स्वविषयार्पिताकारत्वासम्भवात्, सर्वविषयानुमेयत्वे प्रत्यक्षदृष्टार्थदृष्टान्तासम्भवाच्च । तस्मात् प्रत्यक्षसिद्धा घटादय इति । ननु ज्ञानस्य साकारत्वाभावे कथं विषयप्रतिभेद इत्याशक्य, अर्थेनैव विषयादि निराकारधियामिति न्यायेनेत्याह सर्वमिति । [सर्वं ज्ञानमर्थनिरूप्यम्, अर्थप्रतिबद्धस्यैव तस्य मनसा

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220