Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 191
________________ तर्कभाषावार्तिकम् Vol. XX, 1996 1 संयोगफलिका क्रिया तथा गुरुणोऽपि शरीरस्य प्रयत्नदशायां सत्यपि गुरुत्वे पतनं न भवतीति तदर्थं प्रयत्नाभावः । तत्र प्रयत्नस्यैव पतनप्रतिबन्धकत्वम् । वेगेन गच्छतः शरीरादेः सत्यपि गुरुत्वे पतनं न भवति, तदर्थं वेगाभावः । तत्र वेगस्यैव पतनप्रतिबन्धकत्वम् । तथापि तत्संयुक्तस्य फलादेः सत्यपि गुरुत्वे पतनं न भवति, तदर्थं संयोगाभावः तत्संयोगस्यैव पतनप्रतिबन्धकत्वमिति ध्येयम् । गुरुत्वेऽनुमानं विमतं पतनम् । स्वाश्रयसमवेतसमवायिकारकगमनानन्तत्वात्, स्पन्दनवत्, गुरुत्वस्य च पतनं प्रत्यसमवायि कारणत्वे सूत्रकारः संवादं दर्शयति । [ पृथिवीजलवृत्ति । यथोक्तं, संयोगवेगप्रयत्नाभावे सति गुरुत्वात् पतनमिति । ] यथोक्तमिति । द्वितीयादेः पतनस्य स्पन्दस्य च वेगहेतुत्वात् तदुभयत्र 'आद्येति' पदमेषिष्टव्यमिति । [ जले नैसर्गिकं द्रवत्वम् |] नैसर्गिकेति । द्रव्यान्तरसंयोगानपेक्षं द्रवत्वं जलस्य विशेषगुण इत्यर्थः । [ स्नेहचिक्कणता । जलमात्रवृत्तिः कारणगुणपूर्वको, गुरुत्वादिवद् यावद्द्रव्यभावी ।] कारणगुणेति । समवायिकारणे समुदायिकारणमात्रगुणाः समवायिकारणत्वं कारणगुणपूर्वकत्वमित्यर्थः । [ शब्दः श्रोत्रग्राह्यो गुणः । आकाशस्य विशेषगुणः ।] शब्देति । शब्दस्यानित्यत्वाद् विनाशेन भवितव्यम् विनाशश्च निर्हेतुको न बोभवीति । तथा च किमत्र विनाशस्य कारणमित्याह । [ तत्राद्यमध्यमशब्दाः कार्यशब्दनाश्याः अन्त्यस्तूपान्त्येन उपान्तस्त्वन्त्येन सुन्दोपसुन्दन्यायेन विनश्येते ।] तत्रेति । कार्यकारणोभयविरोधित्वं शब्दस्योक्तं प्रशस्तपादभाष्ये । आद्यानामुपान्तपर्यन्तानां शब्दानां कार्यनाश्यत्वम् । अन्त्यस्य तु कार्यनाश्यत्वमिति कैश्चिद् व्याख्यातं तदुभाष्यमन्यैस्तु । प्रथमशब्दः कार्यनाश्यः अन्त्यशब्दः कारणनाश्यः, मध्यशब्दाः कार्येण कारणेन वा विरुध्यन्ते, मध्यवर्तिनां शब्दानां कार्यमात्रविनाश्यत्वेऽपि स्वकारणापेक्षया विनाश्यकत्वेन स्वकार्यमात्रापेक्षया विनाश्यत्वेन वोभयथा विरोधसम्भवादिति । अत्र प्रथमपक्षमादायाह । आद्येति । सुन्दोपसुन्दौ तप: प्रकर्षसम्पादितप्रभावावन्यतरविनाश्यावपि परस्परं युद्धेन विनाश्यविनाशकभावमापन्नौ तेन न्यायेनेत्यर्थः । कुत्रचिदेवं वा सुन्दोपसुन्दनामानौ दैत्यौ । अनयोर्वधाय स्वयमेव जनितमायास्त्री मोहितौ पाणिग्रहणाय युद्धयन्तौ परस्परप्रहारेण मृतौ इत्येतयोन्ययेिनेत्यर्थः । अन्त्यस्योपान्त्येन नाशकत्वं न सङ्गच्छत इत्याह । [ इदं त्वयुक्तम् । उपान्त्येन, त्रिक्षणावस्थायिनोऽन्त्यस्य द्वितीयक्षणमात्रानुगामिना तृतीयक्षणे चासताऽन्त्यनाशजननासम्भवात् ।] इदं त्विति । तत्रोपपत्तिमाह । उपान्त्येनेति । यस्मिन् क्षणे उपान्त्यस्योत्पत्तिस्तस्मिन् क्षणेऽन्त्यस्योत्पद्यमानता । यस्मिन् क्षणेऽन्त्यस्योत्पत्तिस्तस्मिन् क्षणे उपान्त्यस्य स्थितिः । यदोपान्त्यविनश्यत्ता तदाऽन्त्यस्य स्थितिरेव च । अन्त्यस्य तृतीयक्षणे वाऽसतोपान्त्येन नाशो न सम्भवतीति भावः । कथं तर्हि अन्त्यस्य विनाश इत्याशंक्य, उपान्त्यस्य नाशकत्वासंभवात् तन्नाश एवान्त्यनाश इत्याह । [ तस्मादुपान्त्यनाशादेवान्त्यनाश इति ।] तस्मादिति ॥ 183 [ धर्माधर्मौ सुखदुःखयोरसाधारणकारणे । तौ चाप्रत्यक्षावप्यागमगम्यावनुमानगम्यौ च ।] धर्मेति । धर्माधर्मयोः सत्त्वेऽनुमानम् । [ तथाहि देवदत्तस्य शरीरादिकं विशेषणगुणजन्यं कार्यत्वे सति देवदत्तस्य भोगहेतुत्वात् देवदत्तप्रयत्नजन्यवस्तुवत् ।] देवदत्तस्येति । शरीरादिकं विशेषगुणजन्यमित्युक्ते आपरमेश्वरविशेषगुणजन्यत्वेन सिद्धसाधनता स्यात् तदर्थं देवदत्तेति । व्याघातपरिहाराय पक्षे देवदत्तस्येति । भोगहेतुत्वादित्युक्ते आत्मनि व्यभिचारः । तदर्थं कार्यत्वे सति । तथापि यज्ञदत्तभोगसाधने शरीरेन्द्रियादौ व्यभिचारः । तदर्थं देवदत्तस्येति । साध्यवैकल्यपरिहाराय दृष्टान्ते देवदत्तेति । शरीरोत्पत्तेः प्राक् प्रयत्नादीनामसम्भवात् प्रयत्नादिजन्यत्वं शरीरादेरशक्यशङ्कमित्याह । [ यश्च शरीरादिजनक आत्मविशेषगुणः स एव धर्मोऽधर्मश्च प्रयत्नादीनां शरीराद्यजनकत्वात् । ] यश्चेति ॥ ननु संस्कारः कदाचिदेव स्मृतिं जनयति न सर्वदेत्यत्र किं विनिगमकम् ? तत्राह [ स चोबुद्ध एव

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220