________________
तर्कभाषावार्तिकम्
Vol. XX, 1996
1
संयोगफलिका क्रिया तथा गुरुणोऽपि शरीरस्य प्रयत्नदशायां सत्यपि गुरुत्वे पतनं न भवतीति तदर्थं प्रयत्नाभावः । तत्र प्रयत्नस्यैव पतनप्रतिबन्धकत्वम् । वेगेन गच्छतः शरीरादेः सत्यपि गुरुत्वे पतनं न भवति, तदर्थं वेगाभावः । तत्र वेगस्यैव पतनप्रतिबन्धकत्वम् । तथापि तत्संयुक्तस्य फलादेः सत्यपि गुरुत्वे पतनं न भवति, तदर्थं संयोगाभावः तत्संयोगस्यैव पतनप्रतिबन्धकत्वमिति ध्येयम् । गुरुत्वेऽनुमानं विमतं पतनम् । स्वाश्रयसमवेतसमवायिकारकगमनानन्तत्वात्, स्पन्दनवत्, गुरुत्वस्य च पतनं प्रत्यसमवायि कारणत्वे सूत्रकारः संवादं दर्शयति । [ पृथिवीजलवृत्ति । यथोक्तं, संयोगवेगप्रयत्नाभावे सति गुरुत्वात् पतनमिति । ] यथोक्तमिति । द्वितीयादेः पतनस्य स्पन्दस्य च वेगहेतुत्वात् तदुभयत्र 'आद्येति' पदमेषिष्टव्यमिति । [ जले नैसर्गिकं द्रवत्वम् |] नैसर्गिकेति । द्रव्यान्तरसंयोगानपेक्षं द्रवत्वं जलस्य विशेषगुण इत्यर्थः । [ स्नेहचिक्कणता । जलमात्रवृत्तिः कारणगुणपूर्वको, गुरुत्वादिवद् यावद्द्रव्यभावी ।] कारणगुणेति । समवायिकारणे समुदायिकारणमात्रगुणाः समवायिकारणत्वं कारणगुणपूर्वकत्वमित्यर्थः । [ शब्दः श्रोत्रग्राह्यो गुणः । आकाशस्य विशेषगुणः ।] शब्देति । शब्दस्यानित्यत्वाद् विनाशेन भवितव्यम् विनाशश्च निर्हेतुको न बोभवीति । तथा च किमत्र विनाशस्य कारणमित्याह । [ तत्राद्यमध्यमशब्दाः कार्यशब्दनाश्याः अन्त्यस्तूपान्त्येन उपान्तस्त्वन्त्येन सुन्दोपसुन्दन्यायेन विनश्येते ।] तत्रेति । कार्यकारणोभयविरोधित्वं शब्दस्योक्तं प्रशस्तपादभाष्ये । आद्यानामुपान्तपर्यन्तानां शब्दानां कार्यनाश्यत्वम् । अन्त्यस्य तु कार्यनाश्यत्वमिति कैश्चिद् व्याख्यातं तदुभाष्यमन्यैस्तु । प्रथमशब्दः कार्यनाश्यः अन्त्यशब्दः कारणनाश्यः, मध्यशब्दाः कार्येण कारणेन वा विरुध्यन्ते, मध्यवर्तिनां शब्दानां कार्यमात्रविनाश्यत्वेऽपि स्वकारणापेक्षया विनाश्यकत्वेन स्वकार्यमात्रापेक्षया विनाश्यत्वेन वोभयथा विरोधसम्भवादिति । अत्र प्रथमपक्षमादायाह । आद्येति । सुन्दोपसुन्दौ तप: प्रकर्षसम्पादितप्रभावावन्यतरविनाश्यावपि परस्परं युद्धेन विनाश्यविनाशकभावमापन्नौ तेन न्यायेनेत्यर्थः । कुत्रचिदेवं वा सुन्दोपसुन्दनामानौ दैत्यौ । अनयोर्वधाय स्वयमेव जनितमायास्त्री मोहितौ पाणिग्रहणाय युद्धयन्तौ परस्परप्रहारेण मृतौ इत्येतयोन्ययेिनेत्यर्थः । अन्त्यस्योपान्त्येन नाशकत्वं न सङ्गच्छत इत्याह । [ इदं त्वयुक्तम् । उपान्त्येन, त्रिक्षणावस्थायिनोऽन्त्यस्य द्वितीयक्षणमात्रानुगामिना तृतीयक्षणे चासताऽन्त्यनाशजननासम्भवात् ।] इदं त्विति । तत्रोपपत्तिमाह । उपान्त्येनेति । यस्मिन् क्षणे उपान्त्यस्योत्पत्तिस्तस्मिन् क्षणेऽन्त्यस्योत्पद्यमानता । यस्मिन् क्षणेऽन्त्यस्योत्पत्तिस्तस्मिन् क्षणे उपान्त्यस्य स्थितिः । यदोपान्त्यविनश्यत्ता तदाऽन्त्यस्य स्थितिरेव च । अन्त्यस्य तृतीयक्षणे वाऽसतोपान्त्येन नाशो न सम्भवतीति भावः । कथं तर्हि अन्त्यस्य विनाश इत्याशंक्य, उपान्त्यस्य नाशकत्वासंभवात् तन्नाश एवान्त्यनाश इत्याह । [ तस्मादुपान्त्यनाशादेवान्त्यनाश इति ।] तस्मादिति ॥
183
[ धर्माधर्मौ सुखदुःखयोरसाधारणकारणे । तौ चाप्रत्यक्षावप्यागमगम्यावनुमानगम्यौ च ।] धर्मेति । धर्माधर्मयोः सत्त्वेऽनुमानम् । [ तथाहि देवदत्तस्य शरीरादिकं विशेषणगुणजन्यं कार्यत्वे सति देवदत्तस्य भोगहेतुत्वात् देवदत्तप्रयत्नजन्यवस्तुवत् ।] देवदत्तस्येति । शरीरादिकं विशेषगुणजन्यमित्युक्ते आपरमेश्वरविशेषगुणजन्यत्वेन सिद्धसाधनता स्यात् तदर्थं देवदत्तेति । व्याघातपरिहाराय पक्षे देवदत्तस्येति । भोगहेतुत्वादित्युक्ते आत्मनि व्यभिचारः । तदर्थं कार्यत्वे सति । तथापि यज्ञदत्तभोगसाधने शरीरेन्द्रियादौ व्यभिचारः । तदर्थं देवदत्तस्येति । साध्यवैकल्यपरिहाराय दृष्टान्ते देवदत्तेति । शरीरोत्पत्तेः प्राक् प्रयत्नादीनामसम्भवात् प्रयत्नादिजन्यत्वं शरीरादेरशक्यशङ्कमित्याह । [ यश्च शरीरादिजनक आत्मविशेषगुणः स एव धर्मोऽधर्मश्च प्रयत्नादीनां शरीराद्यजनकत्वात् । ] यश्चेति ॥
ननु संस्कारः कदाचिदेव स्मृतिं जनयति न सर्वदेत्यत्र किं विनिगमकम् ? तत्राह [ स चोबुद्ध एव