________________
182
नारायण म. कंसारा
SAMBODHI
इति लक्षणद्वयमित्यर्थः । वस्तुतस्तु दिक्कृतपरत्वापरत्वयोभिन्ना जातिः, कालकृतपरत्वापरत्वयोभिन्ना जातिरिति तत्र जातिपरस्कारेणैव परत्वापरत्वादेर्लक्षणत्वमिति पूर्वादीति परत्वापरत्वाविशेषानुमेयत्वमस्याः ।
[मनस्त्वाभिसम्बन्धवन्मनः अणु, आत्मसंयोगि, अन्तरिन्द्रियं सखायपलब्धिकारणं नित्यं च ।] मन इति । इन्द्रियं मन इत्युक्ते चक्षरादीन्द्रियेऽतिव्याप्तिः । तन्निरासाय 'आन्तर्' इति तावत्युक्ते सुखादावतिव्याप्तिः । तन्निरासाय इन्द्रियेति सुखादीति एतावता मनसि प्रमाणं सूचितम् । ननु सर्वस्य ज्ञानस्यात्मनः संयोगजन्यत्वात् सर्वज्ञानसाधनं मन इति कथं 'सुखादीति' उच्यते ? संयोगेनेति बहिरस्वतन्त्रं मन इति न्यायेन मनसः स्वातन्त्र्येण रूपादिज्ञानसाधनत्वं नास्ति, व्यासंगदशायां विषयान्तरोपलम्भसम्भवात् । मन:संयुक्तानीन्द्रियाणि ज्ञानजनकानि । तस्मात् सर्वोपलब्धिसाधनत्वं मनसो युक्तम् । मनसो विभुत्वं प्राग निरस्तम् । मध्यमपरिमाणत्वे सावयवत्वेनानित्यत्वप्रसङ्गः । न चानित्यत्वं युक्तं, स्पर्शरहितद्रव्यत्वेनाकाशादिवदनित्यत्वसावयवत्वयोरसम्भवात् । यस्मिन् द्रव्ये यावन्तो गुणाः सन्ति तदाह । वायोर्नवैकादशतेजसो गुणा जलक्षितिप्राणभृतां चतुर्दश, दिक्कालयोः पञ्च षडेव चाम्बरे, महेश्वरेऽष्टौ मनसस्तथैव । द्रव्याण्युक्तानि ॥
[॥ गुणाः ॥] . गुणा उच्यन्ते । [सामान्यवान् असमवायिकारणं स्पन्दात्मा गुणः ।] सामान्यवानिति । असमवायिकारणत्वं समवायिकारणभिन्नत्वम्, अन्यथा घटरूपादावतिव्याप्तिः । सामान्यादावतिव्याप्तिप्रसक्तये सामान्यवानिति, द्रव्येऽनतिव्याप्तिप्रसक्तयेऽसमायिकारणमिति कर्मण्यनतिप्रसक्तये स्पन्दात्मेति ॥
[पृथकत्वं पृथग्व्यवहारसाधारणं कारणम् ।] पृथक्त्वमिति । ननु अन्योन्याभावनिबन्धनोऽयं व्यवहार इति चेन्मेव, तत्सर्वानुल्लिखितधीविषयत्वन पृथक्त्वस्याभावरूपत्वानुपपत्तः ॥
[संयोगः संयुक्तव्यवहारहेतुर्गुणः । स च व्याश्रयोऽव्याप्तवृत्तिश्च ।] अव्याप्यवृत्तीति । अव्याप्यवृत्तित्वं स्वात्यन्ताभावसमानाधिकरणमित्यर्थः । शरीरेन्द्रिययोः शरीरकेशयोः शरीरनखयोः संयोग एव संयोगजेति उत्पन्नमात्रस्य चिरोत्पन्नस्य वा निष्क्रियस्य स्वकार्यकारणसंयोगिभिरकारणैः कारणाकारणसंयोगपूर्वक: कार्यकार्यगतसंयोगः स चैकस्माद् द्वाभ्यां बहुभ्यश्च भवति । तत्रैकस्मात् तावत् तन्तुवीरणसंयोगात् पटवीरणसंयोगकः द्वाभ्यां द्वित्वाकाशसंयोगाभ्यामेकः पटाकाशसंयोगः, द्वित्वतन्त्राकाशसंयोगः, बहुभ्यश्च पटतन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः । एकस्मात् संयोगाद् द्वयोः संयोगयोरुत्पत्तिर्यथा यदा पार्थिवाप्ययोरण्वोः संयोगे सति पार्थिवेन पार्थिवस्य, आप्येन चाप्यस्य युगपत् संयोगो भवतः, तदा ताभ्यां संयोगाभ्यां पार्थिवाप्यव्यणुके युगपदारभ्येते ततो यस्मिन्नेव काले व्यणुकयोः कारणगुणप्रक्रमेण रूपाद्युत्पत्तिस्तस्मिन्नेव काल इतरेतरकारणाकारणगतात् संयोगाद् इतरेतरकार्याकार्यगतौ संयोगौ युगपदुत्पद्यते । किं कारणम् ? कारणसंयोगिना हि कार्यमवश्यं संयुज्यते इति न्यायः । स्वेति स्वशब्देन च स्वावयवः, तस्य कार्यं वस्त, तस्य कारणं, स एवावयवः, तदेवं संयोगिभिरकारणैरित्यर्थः ॥
परत्वमधिकदेशवृत्तित्वम् । अपरत्वं न्यूनदेशवृत्तित्वम् । तद्व्यवहारः साध्यः । दिपिण्डसंयोगकृते कालकते कालपिण्डसंयोगकृते कालकृते परत्वापरत्वयोरनित्यत्वम् । कुतः ? विनाशादिति । स चिनाशः सप्तधा। तदुक्तम्
अपेक्षाबद्धिसंयोगद्रव्यनाशात् पृथक् पृथक् ।
द्वाभ्यां द्वाभ्यां च सर्वेभ्यो विनाशः सप्तधा तयोः ॥ [गुरुत्वमाद्यपतनासमवायिकारणम् ।] गुरुत्वेति । आद्येति क्रियाविशेषः । ननु अधः