________________
Vol. Xx, 1996 तर्कभाषावार्तिकम्
181 पृथ्वीत्यादि बोध्यम् । असमवायिकारणनाशे कार्यनाशः । क्वचित् समवायिकारणनाशे कार्यनाशः । निमित्तकारणनाशे कार्यनाशो न भवत्येव । व्यणुक-तत्संयोग-तद्वित्व-तत्परिमाणरूप-चतुर्णा कार्याणां यथाक्रमसंयोग-क्रिया-एकत्वद्वय-द्वित्व-लक्षणाऽसमवायिकारणनाशे सत्येव नाशो भवति । त्र्यणुकादिकार्यनाशो व्यणुकादिसमवायिकारणनाशे सतीति विरोधिगुणातिरिक्तरूपजनकपाकेन श्यामरूप नाश इत्यर्थः । रक्तान्तरजनकेनापि पूर्वरूपं नाश्यते इत्यपि बोध्यम् । एवं स्मरणेन संस्कारनाशः संस्कारेण स्वजनकानुभवज्ञाननाशः । उत्तरसंयोगान्तौ कर्मविभागौ दुःखादीनां विरोधिगुणोत्पादेन नाशः, प्रायश्चित्ताद्यनाश्यकर्मणां भोगादेव क्षयः इत्यादि बोध्यम् ॥
[॥ व्यणुकादीनामवयवनियमः ॥] [शब्दगुणमाकाशम् । शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागवद् एकं विभु नित्यञ्च । शब्दलिङ्गकञ्च ।] शब्दलिङ्गकत्वमस्य कथम् ?] शब्दस्य विशेषगुणत्वे सति त्वगिन्द्रियवेद्यत्वाद् रूपादिवद अवयवित्वे सिद्धे पारिशेष्यादाकाशलिङ्गत्वमित्याह । [परिशेषात् । प्रसक्तप्रतिषेधेऽन्यत्रप्रसङ्गात् परिशिष्यमाणे सम्प्रत्ययः परिशेष ] इति । ग्राह्यत्वादित्युक्तेऽनुमानग्राह्ये परमाण्वादौ व्यभिचारः । तन्निरासाय इन्द्रियेति । तथाप्यान्तरिन्द्रियग्राह्ये आत्मनि व्यभिचारः । तन्निरासाय बाह्येति । तथापि योगिबाह्येन्द्रियग्राह्ये परमाण्वादौ व्यभिचारः । तन्निरासाय अस्मदादीति । तथापि घादौ व्यभिचारः । तन्निरासाय एकेति । तथापि रूपत्वादौ व्यभिचारः । तन्निरासाय सामान्यत्वे सतीति । तथापि दीपप्रभायां व्यभिचारः । तन्निरासाय तद्व्यतिरिक्तत्वे सतीति वाच्यम् ॥
[तथाहि शब्दस्तावद विशेषगुण: सामान्यत्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वाद्, रूपादिवत् ।] विशेषेति । ननु किमिदं विशेषगुणत्वम् ? द्रव्यस्वाश्रयव्यवच्छेदकत्वं १, द्रव्यस्यैव द्रव्यान्तराव्यावर्तकत्वं २, त्वचा प्रतिनियतग्राह्यत्वं ३, गुणत्वे सति प्रतिनियतेन्द्रियग्राह्यत्वं ४, द्रव्यान्तरलक्षणवतस्तद्रहितसकलव्यावर्तक त्वम् ५ ? नाद्यः, स्वाश्रयस्य गुणादिभ्यो व्यावर्तकद्रव्यत्वादावतिव्याप्तिः । नेतरो, मूर्त्तद्रव्यस्यामूर्तव्याव्यावर्तके कर्मादावतिव्याप्तिः । न तृतीयः, प्रभादावतिव्याप्तेः । न चतुर्थों, द्वीन्द्रियग्राह्ययोर्द्रव्यस्नेहयोरतीन्द्रियासु धर्माधर्मभावनासु चाव्याप्तेः, प्रभाकुम्भसंयोगादावतिव्याप्तेः । नापि पञ्चमः पृथ्वीत्वादावतिव्याप्तेः, गुणत्वे सतीति विशेषणे जीवात्मानः व्यावर्तके दुःखद्वेषादावतिव्याप्तेः । तस्माद विशेषगुणत्वं नाम गुणत्वव्याप्तजातिमत्तया नियतैकद्रव्यत्वव्यवच्छेदकत्वं, नवानां लक्षणानां मध्ये लक्षणद्वयसमानाधिकरणत्वरहितगुणत्वाचान्तजातिमत्त्वं च ॥
[अत एभ्योऽष्टभ्योऽतिरिक्तः शब्दगुणी एषितव्यः, स एवाकाश इति । स चैको, भेदे प्रमाणाभावात् । एकत्वेनैवोपपत्तेः ।] एकत्वेनेति । ननु तीव्रः शब्दः तीव्रतरः तीव्रतमः इति भेद एव नभोभेदप्रमाणमित्याशक्य तीव्राद्यभिघातान्वयव्यतिरेक्यनुविधायिनः शब्दभेदस्य नभो भेदसाधकत्वासम्भवादेकत्वमुपपद्यते इति आकाशस्यैकत्वेनैव शब्दरूपलिङ्गोपपत्ते काशत्वव्याप्यनानात्वमित्याह .. एकत्वेनेति । तत्त्वाकाशत्वं जातिरेव लक्षणमस्त्वत आह । [एकत्वाच्चाकाशत्वं नाम सामान्याकाशे न विद्यते, सामान्यस्यानेकवृत्तित्वात् । ] विभुत्वं सकलमूर्तसंयोगित्वं, तदनुमेयं महत्त्वं, तदेव वा परममहत्त्वमित्यप्रेत्याह विभुत्वेत्यादिना । [विभु चाकाशम् । परममहत्परिमाणवदित्यर्थः, सर्वत्र तत्कार्योपलब्धेः । अत एव विभुत्वान्नित्यमिति ।] एकत्वादिति ।।
[कालोऽपि दिग्विपरीतपरत्वापरत्वानुमेयः ।] काल इति । दिकृतपरत्वापरत्वभिन्नपरत्वापरत्वानुमेय