________________
180
नारायण म. कंसारा
SAMBODHI
गुरुत्वद्वत्वसंस्कारवती ।] रूपेति । सर्वेषां नित्यत्वे घटादीनां द्रव्यत्वापत्तिः । सर्वानित्यत्वेऽनवस्था स्यात । इत्यतः । [सा च द्विविधा, नित्यानित्या च । नित्या परमाणुरूपा । अनित्या च कार्यरूपा ।] सा नित्यानित्येति । द्विविधायाः पृथिव्या रूपगन्धस्पर्शा अनित्या: पाकजाश्च । पाकस्तु तेजःसंयोगः । तेन पृथिव्याः पूर्वरूपादयो नश्यन्त्यन्ये जन्यन्त इति पाकजाः ॥
अप्त्वसामान्ययुक्ता आपः । रसनेन्द्रियशरीरसरित्समुद्रहिमकरकादिरूपाः । गन्धवर्णस्नेहयुक्तपूर्वोक्तगुणवत्यः ।] गन्धवर्णेति । एते पूर्ववत् सिद्धाः रूपरसस्पर्शवत्य आपो द्रव्याः, स्निग्धाश्च । सङ्ख्यादयश्चाक्षुषाः । पतनाऽगुरुत्वं उत्तरकर्मतः संस्कार इति ॥
[तेजस्त्वसामान्यवत् तेजः । चक्षुःशरीरसवितृसुवर्णवह्निविद्युदादिप्रभेदम् ।...तच्चतुर्विधम् । उद्भूतरूपस्पर्शम्, अनुद्भूतरूपस्पर्शम्, अनुद्भूतरूपमुद्भूतस्पर्शम्, उद्भूतरूपमनुद्भूतस्पर्शञ्चेति ।] उद्भतेति । इन्द्रियग्रहणयोग्यतापादको धर्मविशेष उद्भूतः, तविपरीतोऽनुद्भत इति । उद्भूतौ रूपस्पर्शी यस्येत्यर्थः । एवमनुद्भुतौ रूपस्पर्शी यस्येत्यर्थः । क्रमेणोदाहरति । [उद्भूतरूपस्पर्श यथा सौरादितेजः पिण्डीभूतं तेजो वन्यादिकम् ।] यथेति ॥
सुवर्णं तूभृताभिभूतरूपस्पर्शम् । सुवर्णमिति । इदमप्युद्भूतरूपस्पर्शस्योदाहरणम् । सुवर्णस्पर्शोऽनुद्भूतः त्वचा पार्थिवभाग एव गृह्यते । एवेत्यन्यराद्धान्तः । स्पर्शेति । उपलक्षणमेतत् । किन्तु स्पर्शशब्दधतिकम्पलिङ्गत्वं वायोः । ननु सुवर्णं पार्थिवं, नैमित्तिकद्रवत्वाद् घृतवद् इति चेन्न, विमतं पार्थिवं न, पाकनिर्वत्यरूपत्वात्, तोयवद् इति सत्प्रतिपक्षात् । न तु विमतं तैजसं पार्थिवापाभ्यामन्यत्वे सति रूपवत्त्वात प्रदीपवद् इति ॥
॥ कार्यद्रव्याणामुत्पत्तिविनाशक्रमः ॥ [कारणगुणा हि कार्यगुणानारभन्ते । कारणागुणा हीति ।] समवायिकारणगुणा हीति पाकजन्यघटपटादिनिष्ठैकत्वाऽसमवायिकारणकद्वित्वादिधटपटसंयोगादिभिन्नकार्यगुणजनका इत्यर्थः । पाकेनाजन्यं यत् घटपयदिनिष्ठैकत्वं तदेवासमवायिकरणं यस्य द्वित्वादेः स पाकाजन्यः । अत एव वदन्ति अपाकजा रूपरसगन्धस्पर्शाः, परिणामरूपत्वगुरुत्वद्वत्वस्नेहादयश्च कारणगुणाप्रभवा इति ॥
[इत्थमुत्पन्नस्य रूपादिमतः कार्यद्रव्यस्य घटादेरवयवेषु कपालादिषु नोदनाद् अभिघाताद् वा क्रिया जायते ।] नोदनादिति । वेगरहित स्पर्शवद्रव्यसंयोगादित्यर्थः । अभिघातादिति । स्पर्शवद्वेगवद्व्यसंयोगादित्यर्थः ॥
प्रत्यक्षसिद्धं त्र्यणुकं कक्षीकृत्य व्यणुकं साधयति । [यदिदं जालं सूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते तत् स्वल्पपरिमाणद्रव्यारब्धं कार्यदव्यत्वाद् घटवत् । तच्च दव्यं कार्यमेव महद्दव्यारम्भकस्य कार्यत्वनियमात् । तदेवं व्यणुकाख्यं द्रव्यं सिद्धम् ।] तदिति । द्रव्यत्वाद् इत्युक्ते गगनादावनैकान्तिकत्वम् । अत उक्तं कार्येति । केवलं 'कार्येति' उक्ते शब्दादावनैकान्तिकत्वम् । अत उक्तं 'द्रव्यत्वाद्' इति । न चायमसिद्धो हेतुः । विमतं कार्यत्वं चाक्षुषत्वाद्, घटवदिति । किञ्च व्यणुककार्यस्य परमाणु समवायिकारणं, तत्संयोगोऽसमवायिकारणम्, अदृष्टादि निमित्तकारणम् । व्यणुकसंयोगकार्यस्य परमाण समवायिकारणं, तदेकत्वद्वयमसवायिकारणम्, अपेक्षाऽदृष्टादि निमित्तकारणम् । व्यणुकपरिमाणकार्यस्य परमाणू समवायिकारणं, द्वित्वमसमवायिकारणम् अदृष्टादिनिमित्तकारणम् । अत्रेश्वरेच्छाजन्यत्वं सर्वत्रापि । व्यणुककार्यस्य व्यणुकादीनि समवायिकारणम् । तत्संयोगोऽसमवायिकारणं क्रियाऽदृष्टादि निमित्तकारणम् । एवं क्रमेण महती