________________
Vol. xx, 1996
तर्कभाषावार्तिकम्
179
त्वाचज्ञानजनकतया तत्रातिप्रसक्तिवारणाय 'अतीन्द्रियत्वम्' ।
[तत्र गन्धोपलब्धिसाधनमिन्द्रियं घ्राणम् ।] गन्धेति । असाधारणव्यापारवद्गन्धोपलब्धिसाधनमित्यर्थः । अतो न मनसि, न चासन्निकर्षेऽतिप्रसङ्ग । सुरभिदुरभ्यवयवारब्धे घ्राणेऽतिव्याप्तिवारणाय 'उपलब्धि' इति । ननु इन्द्रियमतीन्द्रियघ्राणं च ऐन्द्रियकम् । अत एव तत्कथम् ? अत आह - 'नासाग्रवति' इति । [यदिन्द्रियं रूपादिषु पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणसंयुक्तं, तथा चक्षू रूपग्राहक रूपवत् । तद्गुणसंयुक्तमिति तज्जातीयगुणवदित्यर्थः स्नेहादिग्राहकमपि चक्षुरादि न तद्वदित्यनतिप्रसक्तये रूपादिष्वेत्याधुक्तम् ॥
[ रसोपलब्धिसाधनमिन्द्रियं रसनम् । जिह्वाग्रवति । तच्चाप्यं रसवत्त्वात् । रसत्वं च रूपादिषु पञ्चसु मध्ये रसस्यैवाभिव्यञ्जकत्वालालावत् ।] रसस्यैवेति । मनसि व्यभिचारवारणाय एवशब्दः । अप्रसिद्धिवारणाय मध्य इत्यन्तम् ॥
[शब्दोपलब्धिसाधनमिन्द्रियं श्रोत्रम् । तच्च कर्णशष्कुल्यवच्छिन्नमाकाशमेव, न द्रव्यान्तरं शब्दगुणत्वात् । तदपि शब्दग्राहकत्वात् ।] शब्द इति । ननु आकाशस्य श्रोत्रत्वेन सर्वदा सत्त्वादबधिरस्यापि शब्दोपलब्धिप्रसङ्ग इति चेन्मैवम् । शब्दश्रवणजनितसुखदुःखानुभवप्रापकधर्माधर्मविशिष्टस्यैव नभोदेशस्य श्रोत्रत्वाभ्युपगमेन तादृशादृष्टवैकल्यसाकल्याभ्यां बधिरत्वाबधिरत्वोपपत्तेः, इन्द्रियसद्भावे प्रमाणपृच्छा च । [ननु चक्षुरादीन्दियसद्भावे किं प्रमाणम् ? उच्यते । अनुमानमेव ।] नन्विति । अनुमानमेव प्रमाणमित्याह । उच्यते इति । किमिदमक्रियात्वं विवक्षितं, धात्वर्थरूपत्वं, परस्पन्दनरूपत्वं वा ? नाद्यः, निमित्तमात्रसाध्ये प्रध्वंसादावनेकान्तिकत्वात्, न द्वितीयः, असिद्धत्वात्, इति सेयमुभयतः पाशारज्जुरिति चेत्, तदसारं, क्रियात्वं कार्यत्वमितिविवक्षितत्वात् । कार्यत्वं वा भूत्वा भावित्वमिति न कश्चिद् दोषः । [तथाहि रूपाद्युपलब्धयः करणसाध्याः क्रियात्वात्, छिदिक्रियावत् ।] करणेति । तत्तदुपलब्धौ तत्तदसाधारणजन्यत्वमनुमेयम् । अतो मनसा नार्थान्तरम् । चक्षुरादीनामसाधारणकत्वम् असाधारणकरणत्वं विना चाक्षुषत्वादिकमाकस्मिकं स्यादित्यादयस्तर्का अन्त:करणादेर्यथाकथञ्चिदसाधारणत्वे त्वाचादरपि चाक्षुषज्ञानाद्यापत्तिरित्यादयः ॥
[अर्थाः] [अर्थाः षट्पदार्थाः । ते च दव्यगुणकर्मसामान्यविशेषसमवायाः ।] अर्थेति । ननु द्रव्यादिषु षट्सु पदार्थेषु प्रमाणादीनां षोडशपदार्थानां यथासम्भवमन्तर्भावस्य वक्तुमशक्यत्वात् पृथक् प्रमाणादौ षोडशपदार्थनिरूपणमनुपपन्नं, लाघवे सम्भवति गौरवस्यानाश्रयणीयत्वाद् इतीमां शङ्कां निरस्यति । [प्रमाणादयो यद्यप्यत्रैवान्तर्भवन्ति तथापि प्रयोजनवशाद् भेदेन कीर्तनम् ।] प्रमाणादय इति । अयं भावः । न्यायशास्त्रप्रतिपादितानां प्रमाणादीनां साक्षान्निःश्रेयसाङ्गत्ववत्, द्रव्यादीनां तदभावात् षोडशपदार्थवादोऽयुक्तः । ननु प्राधान्येन षट्पदार्थवादः प्रयोजनमिति प्रमाणत्वादिरूपेण तत्तद्विलक्षणप्रयोजनजनकाः प्रमाणादय इति द्रव्याद्यन्तर्गता अपि पृथगुद्दिष्टा इत्यर्थः ॥
[पृथिव्यादिद्रव्याणि ॥] स्थूलपृथिव्याः कार्यत्वम्[इति] प्राभाकराः । तान् क्षेप्तुं प्रयोगः । विमता पृथ्वी कार्या, सावयवत्वात् । सम्मतं यत् सावयवत्वम् । कुतः ? काठिन्यकोमलत्वाद् इति सिद्धम् । [तत्र पृथिवीत्वसामान्यवती पृथिवी काठिन्यकोमलत्वाद्यवयवसंयोगविशेषेण युक्ता । घ्राणशरीरमृत्पिण्डपाषाणवृक्षादिरूपा ।] शरीरेत्यादिनाद्यद्रव्यसाधकगुणानाह । [रूप रसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व