________________
178
नारायण म. कंसारा
SAMBODHI
रूपमद्राक्षं स एवाहं स्पृशामि' इति । किञ्चेन्द्रियमचेतनं, नियतविषयत्वात्, प्राच्योदीच्यगवाक्षवत् । तस्मान्नेन्द्रियाण्यात्मा । 'अस्ति मनः' इति चेत्, तदा चक्षुरादिव्यतिरिक्तं करणान्तरमपेक्ष्य रूपादीन् साक्षात्करोति, अनपेक्षं वा । नाद्यः, संज्ञाभेदमात्रविवादेऽप्यर्थे तदभावात् । नेतरं, रूपादिषु चक्षुरादिसम्बद्धेषु युगपदनेकज्ञानोत्पत्तिप्रसङ्गात् । न मनः, ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यते, ततश्च जीवब्रह्मणोघयकाशादिवत् मठाकाशवदेक आत्मा तत्र विमतौ भिन्नो किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्मत्वात्, दहनं तुहिनवत् ॥
[तथाहि बुद्ध्यादयस्तावद् गुणाः, अनित्यत्वे सत्येकेन्द्रियमात्र ग्राह्यत्वादिति । अनित्यत्वं ध्वंसप्रतियोगित्वे सति प्रागभावप्रतियोगित्वम् । अतो न रूपादिप्रागभावादौ व्यभिचारः एकेन्द्रियग्राह्यत्वाद् इत्युक्ते घटदौ व्यभिचारः । कथम् ? तत्र चक्षुषा दर्शनेन्द्रियेण च ग्राह्यत्वात् द्वीन्द्रियग्राह्यत्वमिति प्रभाद्रव्ये च व्यभिचारः, तस्यातीन्द्रियत्वात् । तद्वारणाय मात्रेति मात्रशब्देनेन्द्रियग्रहणायोग्यता वार्यते । तेनैकेन्द्रियमात्रजन्यगृहविनष्टघटदौ न व्यभिचारः । बुद्ध्यादयः प्रत्यक्षा एव प्रत्यक्षत्वेन बोध्याः । तेन निर्विकल्पकादिभागे प्रत्यक्षत्वासिद्धिः, गुणत्वे सत्येकेन्द्रियगाह्यत्वादिति । एकेन्द्रियग्राह्यत्वादित्युक्ते रूपत्वादौ व्यभिचारः । तद्वारणाय गुणत्वे सतीति तावत्युक्ते संख्यादौ व्यभिचारः । तद्वारणाय विशेष्यपदं एकमात्रग्राह्ये साध्यरहिते व्यभिचारवारणाय मात्रेति । तदा एकमात्रेन्द्रियग्राह्यत्वादित्यर्थः ।।
[तदेवं पृथिव्याद्यष्टदव्यव्यतिरिक्तो नवमं द्रव्यमात्मा सिद्धः । स च सर्वत्र कार्योपलम्भाद विभः, परममहत्परिमाणवानित्यर्थः । विभुत्वाच्च नित्योऽसौ व्योमवत् । सुखादीनां वैचित्र्यात् प्रतिशरीरं भिन्नः।] विभुत्वादिति विभुत्वयुक्तिमाह । उप्ता: शालयो दृष्टसहकारिसमवधाने समानेऽपि कस्यचित् फलन्ति, कस्यचिन्न। अदृष्टसहकारणातिरिक्तमदृष्टमेष्टव्यम् । तच्च स्वोपकारिणि पवनपावकादौ पदार्थे क्रियां जनयन् स्वाश्रयसंसक्ते एव तां जनकयति । अग्नेरूद्धज्वलनं, वायोस्तिर्यक्पवनम्, अनुमनसोश्चाद्यं कर्म । एतानीष्टकारितानि । तथा च तत्र देशादौ शालिसस्यसम्पत्त्यादेः फलदृश्यमानत्वात, तत्कारणादृष्टाधिकरणस्यात्मनो विभुत्वम् । आत्मा नाणुः बाह्येन्द्रियग्राह्यगुणाधिकरणत्वात् कुम्भादिवत् । मध्यमपरिमाणे सावयवत्वदोषः ॥
[शरीरम् ।] [तस्य भोगायतनमन्त्यावयवि शरीरम् ।] शरीरमिति । शरीरस्य लक्षणद्वयेऽपि करचरणादावतिव्याप्तिपरिहारार्थम् अन्त्यावयवीति पदं क्षेप्यम् । न च मृतशरीरेष्वव्याप्तिः, कादाचित्कस्य तदाश्रयस्येष्टत्वात् । [सुखदुःखान्यतरसाक्षात्कारो भोगः ।] सुखेति । विषयाभ्यासादिजन्यसुखदुःखान्यतर साक्षात्कारो भोग इत्यर्थः । [चेष्टाश्रयो वा शरीरम् । चेष्टा तु हिताहितप्राप्तिपरिहारार्था क्रिया, न तु स्पन्दनमात्रम् ।] हितेति हितप्राप्त्यहितपरिहारोऽन्यतरप्रयोजनिका क्रियेत्यर्थः ॥
[इन्दियम् ।] [शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियम् इन्द्रियम् ।] अतीन्द्रियमित्यादिना इन्द्रियमतिक्रान्तमतीन्द्रियमित्युच्यमाने इन्द्रियज्ञप्तावतीन्द्रियज्ञप्तिः, अतीन्द्रियज्ञप्ताविन्द्रियज्ञप्तिरिति परस्पराश्रयप्रसङ्ग इति [चेत्], मैवं, योगजधर्माजन्यसाक्षात्कारविषयत्वमतीन्द्रियत्वमिति निरूप्यमाणत्वात् । [तानि चेन्द्रियाणि षट्, घ्राणरसनचक्षुस्त्वक्श्रोत्रमनांसि ।] षडिति । ननु त्वचा सर्वेन्द्रियस्थानानि व्याप्तानि । ततश्च त्वगिन्द्रियं सर्वार्थोपलम्भकम् । सर्वार्थग्रहणस्य त्वगिन्द्रियान्वयव्यतिरेकानुविधायित्वाद् एकमेव तत् । नेत्याह । त्वगिन्द्रियस्य सर्वाधिष्ठानव्याप्तावपि अन्यान्यशक्तिभेदात् षड् इत्यभ्युपगम्यते, मञ्चस्थपुरुषक्रोशने मञ्चाः क्रोशन्तीत्यपि व्यवहारात्। त्वचि स्थितेऽपि पृथक्त्वव्यवहार इन्द्रियाणामिति वस्तुतस्तु शरीरसंयोगावच्छेदेन घटपटदीना