________________
नारायण म. कंसारा
स्मृतिं जनयति । उद्बोधश्च सहकारिलाभः सहकारिणश्च संस्कारस्य सदृशदर्शनादयः ।] स चेति । उक्तार्थे संवादकं दर्शयति । [ यथोक्तमिति - 'सादृश्यादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इति ।] यथोक्तमिति । [ स्थितिस्थापकस्तु स्पर्शवद् दव्यविशेषवृत्तिः ।] स्थितेति । पूर्वस्थितवत् स्थापयतीति स्थितिस्थापक इति ॥
184
SAMBODHI
गुणनिरूपणानन्तरं कर्मोच्यते इदानीमिति । [ चलनात्मकं कर्म । गुण इव द्रव्यमात्रवृत्ति ।] गुण इवेति । यथा गुणा द्रव्येष्वेव वर्तन्ते नान्येष्वेवं कर्मेत्युपानार्थः इव । अन्ययोगव्यवच्छेदार्थो मात्रशब्दः, अयोगव्यवच्छेदेन विवक्षितश्चेत् तर्हि केषु द्रव्येषु वर्तते ? ऊर्ध्वदेशसंयोगकारणं कर्म उत्क्षेपणं १ अधोदेशसंयोगकारणं कर्म अपक्षेपणं २ वक्रतापादनं कर्म आकुञ्चनम् ३ ऋजुत्वापादनं कर्म प्रसारणम् ४ अनियतदेशसंयोगकारणं कर्म गमनमिति ॥
[ अनुवृत्तिप्रत्ययहेतुः सामान्यम् ।] अनुवृत्तीति । द्रव्यं सत्, गुणाः सन्तः सकर्मापि सद्रव्यं पृथिव्याद्यनुगतव्यवहारकारणं सामान्यमित्यर्थः । लक्षणमाह - [ नित्यमेकमनेकानुगतं च ।] नित्यमिति । संयोगादावतिव्याप्तिवारणाय नित्यमिति । नित्यपरिमाणादावतिव्याप्तिवारणाय 'अनेकानुगतम्' इति । अनेकसङ्गतमित्यर्थः । अतो न समवायादावतिव्याप्तिः । एकपदसद्भावे तत्प्रयोजनमन्यत्रोक्तमत्र सन्धेयम् । [ तच्च द्विविधं परमपरं च ।] परत्वमधिकदेशवृत्तित्वम् । अपरत्वं न्यूनदेशवृत्तित्वम् । तद्व्यवहारः साध्यः । ततो न साध्यवैशिष्ट्यं, न चापरत्वादिगुणभ्रमः । विषयत्वमधिकरणत्वं व्याकरणोक्तं जातिमत्प्रतियोगिकभेदबुद्धिजनकस्यैव विशेष्यस्येति भावः । अपरं.... व्यावृत्तेरपि हेतुत्वात् सामान्यं सद्विशेषः । विधिमुखेनैवैकाकारस्फुरणात् । विधिमुखेति । 'घोऽयं, पोऽयम्' इत्यादि भावमुखेनाकारेणेत्यर्थः ॥ नत्वघटभिन्नोऽयमपटभिन्नोऽयमित्याकारेणेति । किञ्चैवमन्योन्याश्रयोऽपि स्यादित्युक्तम् । किञ्च गोपदार्थास्फुरण - दशायामपि प्रतीतिदर्शनान्नैव तत् त्याज्यम् । न च सम्बन्धप्रतिभानं गोत्वस्य प्रकारत्वेन भानात् । किं च यस्यायं सम्बन्धस्तद् गोत्वमिति दिक् ॥
-
ननु घटे भग्ने घटत्वं क्व तिष्ठति ? अत्र ब्रूमः । यत्र घटध्वंसस्तत्र तिष्ठत्यन्यघटेषु वा काले वा । तर्हि क नोपलभ्यते ? व्यञ्जकाभावादिति । [ अगोव्यावृत्तिविषय एवायमेकाकारप्रत्ययो ऽनेकेषु ।] विषयेति । अत्र गोविषयशब्द आश्रयवचनः स चेति चत्वर्थः । अनुवृत्तेरेव हेतुत्वात् सामान्यमेवेत्यर्थः । यद्यपि सत्ताद्रव्यादित्रयानुवृत्तिजनकत्वात् सामान्यादिचतुष्टयव्यावृत्तिजनकत्वान्न सामान्यमात्रं किन्तु सामान्यविशेषः, तथापि मत्पदार्थापेक्षयानुवृत्तेरेव हेतुत्वात् सामान्यमात्रमिति न व्याहन्यते ॥
[ विशेषो नित्यो नित्यद्रव्यवृत्तिः, व्यावृत्ति बुद्धिमात्रहेतुः । नित्यद्रव्येति ।] मात्रशब्दश्चानुवृत्तिहेतुत्वं व्यवच्छिन्नमिति केषाञ्चिन्मते । विभुनित्ययोर्विशेषो न वर्तते । केषाञ्चिन्मते विभुनित्ययोविशेषो न वर्तते । केषाञ्चिन्मते आत्माकाशयोर्न वर्तते इति । केषाञ्चिन्मते ईश्वराकाशयोर्नास्तीति बोध्यम् । विशेषकार्यप्रमाणमाहव्यावृत्तीति । सामान्येनापि यद्यपि व्यावृत्तिबुद्धिर्जन्यते तथापि तन्मात्रं जन्यते, तेनानुगतबुद्धेरपि जननादिति दिग् ॥
[ स च अभावः संक्षेपतो द्विविधः । संसर्गाभावोऽन्योन्याभावश्चेति । संसर्गाभावोऽपि त्रिविधः, प्रागभावः, प्रध्वंसाभावोऽत्यन्ताभावश्चेति ।] अत्यन्ताभावश्चेति । केषाञ्चिन्मते अत्यन्ताभावो द्विविधः, सामयिकः सदातनश्च । कस्यचिन्मते तुरीयोऽपि संसर्गाभावो वर्तत इति बोध्यम् ॥
[ उत्पत्तेः प्राक् कारणे कार्यस्याभावः प्रागभावः ।] उत्पत्तेः प्रागिति । ननु कार्यस्याभावादित्युक्ते