Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 184
________________ 176 नारायण म. कंसारा SAMBODHI सङ्कोचनीयत्वादित्यर्थः ॥ [ इदमिदानीं निरूप्यते । जलादिज्ञाने जाते, तस्य प्रामाण्यमवधार्य कश्चिज्जलादौ प्रवर्तते । कश्चित् तु सन्देहादेव प्रवृत्तः प्रवृत्त्युत्तरकाले जलादिप्रतिलम्भे सति प्रामाण्यमवधारयतीति वस्तुगति: । ] इदमिदानीमिति प्रमाणनिरूपणानन्तरं तद्गतप्रामाण्यं विचार्यते । तत्स्वतस्त्वं द्विविधम् । उत्पत्तौ ज्ञप्तौ च । तत्रोत्पत्तौ स्वतस्त्वं नाम ज्ञानकारणमात्रजन्यत्वम् । येन ज्ञानं जायते तेनैव प्रामाण्यं सदेव जायते इत्यर्थः । ज्ञप्तौ स्वतस्त्वं नाम ज्ञानकारणातिरिक्तकारणजन्यत्वम् । इन्द्रियार्थप्रतिसंयोगादिना ज्ञानं जायते तदतिरिक्तेन गुणेन दोषेण वा तज्ज्ञानं प्रमाणमप्रमाणं वा जायते । ज्ञप्तौ परतस्त्वं ज्ञानग्राहकातिरिक्तग्राह्यत्वम् । ज्ञानं मनसा गृह्यते तद्गतं प्रामाण्यमनुमानेन । एवं स्थिते स्वतः प्रामाण्यं प्रतिक्षिप्य परतः प्रामाण्यं साधयितुं लोके प्रवर्तमानानां पुंसां प्रवृत्तिरुभयथेति लोकसिद्धां वस्तुगतिमनुवदति । लोके हि पिपासुः पुमान् तृडुपशमनाय जलं जिज्ञासमानो जलज्ञाने जाते तस्य ज्ञानस्यानभ्यासदशापन्नस्यापि समर्थप्रवृत्तिजनकजातीयत्वलिङ्गेन यथार्थत्वं निश्चित्य प्रवर्तत इत्येकः पक्षः । अन्यस्तु जलज्ञानान्तरं तस्यादावतिसंदेहात् तत्र प्रवर्तमानफललाभे सति समर्थप्रवृत्तिजनकत्वलिङ्गेन तस्य ज्ञानस्याभ्यासदशापन्नस्य यथार्थत्वं निश्चिनोतीत्यपरः पक्षः । उभयमपि वस्तु प्रवृत्तमाबालपण्डितम्, अनुभवसिद्धत्वाद् इति भावः । जलप्रतिलम्भे इति जलप्राप्तावित्यर्थः । अवधारयतीति संवादिप्रवृत्तिजनकत्वलिङ्गेन समर्थप्रवृत्तिजनकत्वचिह्नेनेत्यर्थः ॥ [ अत्र कश्चिदाह । ] कश्चिदिति मीमांसकः । [ प्रवृत्तेः प्रागेव प्रामाण्यावधारणात् ।] प्रागेवेति । तदप्रामाण्याविषयकयावत्तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यविषयीकरणादिति भावः । एतदेवाह[ केनचिज्ज्ञातताविशेषेणाप्रमाणज्ञानाव्यभिचारिणा ज्ञानाप्रामाण्ये सहैव गृह्येते इत्यप्रामाण्यमपि स्वत एव गृह्यताम् ।] स्वत एवेति । तेन केनचिदेव प्रामाण्यं गृह्यते इति मतानपेक्षत्वमित्यर्थः । ज्ञानग्राहकात् प्रामाण्यग्राहकादित्यर्थः ॥ [ज्ञानं च प्रवृत्तेः पूर्वमेव गृहीतं कथमन्यथा प्रामाण्याप्रामाण्यसन्देहोऽपि स्यात् ? अनधिगते धर्मिणि सन्देहानुदयात् ।] ज्ञानं चेति । ननु ज्ञानमपि प्रवृत्त्युत्तरकालं गृह्यते चेत् प्रामाण्यनिश्चयानन्तरकालप्रवृत्तिरिति न घटते, ज्ञानप्रामाण्ययोः सहग्रहणाभ्युपगमाद् इत्याशड्क्याह ज्ञानं चेति । ननु ज्ञानज्ञानमेव न जातं कुतः प्रामाण्यज्ञानम् ? अत आह- कथमिति । धर्मिज्ञानं विना तव संशयो न स्यात् । अतो ज्ञानज्ञानमुभयसिद्धमिति भावः । तज्ज्ञानज्ञानं मानसं वा ज्ञानतालिङ्गकं वा न कश्चिद् विशेषः । [तस्मात् प्रवृत्ते पूर्वमेव ज्ञातताऽन्यथानुपपत्तिप्रसूतयाऽर्थापत्त्या ज्ञाने गृहीते ज्ञानगतं प्रामाण्यमर्थापत्त्यैव गृह्यते ।] तस्मादिति । ज्ञानताऽन्यथानुपपत्त्या प्रमाणेन जनिता उत्पादिता, याऽर्थापत्तिः प्रमा, तया ज्ञानविषयीकरणदशायां तथैव तद्गतप्रामाण्यमेव ग्राह्यत इत्यर्थः । ततः पुरुषः प्रवर्तते । न तु प्रथमं ज्ञानमात्रं गृह्यते ततः प्रवृत्त्युत्तरकाले फलदर्शनेन ज्ञानस्य प्रामाण्यमवधार्यते ।] प्रथममिति । यदि ज्ञानमात्रं प्रथमं गृह्यते पश्चादनुमानेन तद्गतप्रामाण्यं निश्चीयते तदा निश्चितप्रामाण्यभावमेवानुमानं प्रामाण्यं निश्चिनोति ज्ञानेन साकं पूर्वं तस्य गृहीतत्वात्, तथा गृहीतग्रहणेनावस्थानं लालगीति । तस्मात् परतः प्रामाण्यपक्षस्यानवस्थादुःस्थत्वाद्, बोधात्मकत्वेनैव सर्वेषां ज्ञानानां प्रामाण्यम् । क्व तत्त्वार्थान्यथाज्ञानेन हेतूत्थदोषज्ञानेन वा तत्प्रामाण्यमपोद्यते ? एवं सति प्रामाण्यस्य स्वतस्त्वं कक्षीकर्तव्यमिति ॥ [ अत्रोच्यते । ज्ञाततान्यथानुपपत्तिप्रसूतयाऽर्थापत्त्या ज्ञानं गृह्यते इति यदुक्तं तदेव वयं न मृष्यामहे तया प्रामाण्यग्रहस्तु दूरत एव ।] तयेति । सिद्धान्ताप्रतिवक्तिपथाऽर्थापत्त्या ज्ञानग्रहणं न सहामहे तदा तया तद्गत प्रामाण्यग्रहणं ह्याहारोत्सारितमेव व्यक्त्यग्रहणे जातिग्रहणस्यासम्भवात् व्यक्तिग्रहणसामग्री

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220